SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 152 सप्रियं चित्रशालायां, तं नीत्वा न्यस्य चाऽऽसने । निवेश्य स्वागतप्रश्नाद्यैरमू मुदतां पतिम् ततो ज्येष्ठा गिरा लघ्व्याऽऽनीय पाद्यं वरोदकम् । सभक्तिक्षालितौ तस्य, चरणौ ताम्रभाजने गृहीत्वा तज्जलं ज्येष्ठाऽभिमन्त्र्य च ततो भुवम् । तेनाच्छोटयदेतच्च ववृधे तद्गृहेऽभितः " भीतोऽयं वर्द्धमानेऽस्मिन्, श्रीमत्या मुखमीक्षते । साऽभिधत्ते च मा भैषीरित्येवं तु मुहुर्मुहुः ततो गुल्फौ क्रमाज्जानू, उरू नाभिमुरो गलम् । नासां च यावदायातं, वर्द्धमानं च तज्जलम् श्रीमतीमभ्यधाद्भीत-स्ततोऽयं त्वत्प्रतिक्रिया । कस्मै कार्याय मग्नायां, नासायामप्यतः परम् ततः सा धेनुवत्सर्वं मुखेन तदापात्पयः । सद्यस्तथा यथा नाऽस्य, क्वाऽपि बिन्दुरपीक्ष्यते " पूर्वपत्न्यौ ततस्तस्याः, पादयोर्द्रागपप्तताम् । त्वया जिग्यिवहे आवां, निजविद्याकलागुणैः आवामाराधयिष्यावस्ततस्त्वां स्वामिनीमिव । ततस्ताः स्वस्वकार्येषु, लग्नाः प्रीतिजुषो मिथः अहो तिस्त्रोऽप्यमूः क्षुद्र - विद्याभिः समतां ययुः । मिलिताश्च मिथः प्रीत्या, शीलसाम्ये हि सौहृदम् Jain Education International ततः स्वैरित्वमेवाऽस्या, अपि ज्ञात्वाऽऽद्ययोरिव । आयान्ति खलु संसर्गादसन्तोऽपि गुणेतराः For Personal & Private Use Only श्री मुनिसुन्दरसूरिविरचिता ।।१९८ ।। युग्मम् । ।।१९९ ।। ||२०० ।। ।।२०१ ।। ।।२०२ ।। ।।२०३ ।। ।।२०४ ।। ।।२०५ ।। ।।२०६ ।। ।।२०७ ।। ।।२०८ ।। www.jainelibrary.org
SR No.005520
Book TitleMadan Dhandev Charitra
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages180
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy