Book Title: Madan Dhandev Charitra
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 153
________________ 142 श्री मुनिसुन्दरसूरिविरचिता ।।८९॥ ॥९०।। ॥९१।। ॥९२ ।। ॥९३॥ धन्यंमन्यस्ततोऽध्यास्त, मुदितो रङ्गमण्डपम्। तावत्तत्राऽगमत्कश्चिच्चारुवेषाङ्गयौवनः नत्वा स्तुत्वा च तीर्थेशं, सोऽपि तत्रैव मण्डपे। दीर्ध दुःखेन निःश्वस्योपाविशन्मदनान्तिके निःश्वसन्तं च तं प्रेक्ष्य, मदनः स्माह हे सखे!। कस्त्वं? किं निःश्वसिष्येवं? दुःखितोऽहमिवाऽसि किम्? स जगौ धनदेवोऽहं, वणिगत्रैव वासभाक् । दुःखं तु मे कथिष्येऽहं, त्वं च कः? किञ्च दुःखितः? अवदन्मदनो मित्र!, दुःखं लज्जाकरं मम। कथ्यमानं भवेन्नूनं, तथाप्येष वदामि ते यतः साधर्मिकः स्निह्यन्, प्रथमेऽप्यसि दर्शने। कथितं तत्प्रबोधाय, भवेच्च प्रायशः सताम् ततः कुशस्थलग्राम-वासादारभ्य सोऽखिलम्। आख्यद्यथास्थितं वृत्तं, स्वं तत्राऽऽगमनावधि अभणद्धनदेवोऽथ, कियन्मात्रमिदं सखे!। शृणोषि मम वृतान्तं, यद्यत्याश्चर्यकारकम् मदनः स्माह तद् ब्रूहि, श्रोतुमुत्कण्ठुलोऽस्मि यत्। धनदेवस्ततः सौवं [स्वीय], वृत्तान्तं वक्ति तद्यथा अत्रैवाऽऽसीन्महापुर्यां, श्रेष्ठी धनपतिर्गुणी। श्राद्धधर्मे रतः शुद्धे, द्वेधा लक्ष्मीश्च तत्प्रिया नानोपायैरजायेता-मुभयौ तनयौ तयोः । प्रथमो धनसारातो, धनदेवाभिधोऽपरः ॥९४॥ ||९५॥ ॥९६।। ||९७॥ ॥९८॥ ॥९९।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180