Book Title: Madan Dhandev Charitra
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 156
________________ मदन-धनदेवकथा 145 ॥१२१॥ ॥१२२॥ ॥१२३॥ ॥१२४॥ ||१२५।। देवदूष्यनिभक्षौम-सर्वाभरणभूषितः । उत्सवैः परिणेतुं तां, यावदायाति तोरणे तावदुत्सववीक्षार्थं, मिलितैरमितैर्जनैः । पर्यस्ततोरणस्तम्भः, पपात सहसा तिरः तदनाच्छीर्षवलिका, निपत्याऽऽस्फोटयच्छिरः । वरस्य स ततश्चाऽभून्मर्मघाताद्यमातिथिः आकस्मिकमहाशोक-विह्वलः स्वगृहे ततः। आक्रन्दनगमत्सद्यः, सार्थपः सपरिच्छदः तत्स्वरूपमिदं श्रेष्ठि, विज्ञाय विधिनिर्मितम्। साकं स्वपरिवारेण, विचारमिति निर्ममे प्रारब्धमन्यथा कार्य, दैवेन विदधेऽन्यथा। को वेत्ति प्राणिनां प्राच्य-कर्मणां विषमां गतिम् कन्येयं यदि नाद्यैव, लग्नेऽस्मिन् परिणाय्यते। प्रसिद्धौ तदभाग्यस्य, जातायां सर्वतो जने सकलङ्कामिमां पुत्रीं, न कोऽपि परिणेष्यति। सर्वोऽपि जीवितं प्रीयश्चिरमिच्छेन्न तु प्रियाम् वरेण येन केनाऽपि, यथाभाग्यं तदीयुषा। उद्यौवनेन पुत्रीय-मद्यैव परिणाय्यते विचार्येवं ततः श्रेष्ठी, वरं कञ्चिविलोकितुम्। सर्वतः स्वान् जनान् प्रैषीद, भ्रमन्तस्ते पुरेऽभितः धनदेवं वराकारं, प्राप्तं तं दृष्टमुत्सवम् । युवानं वीक्ष्य सन्मानादानयन् श्रेष्ठिनोऽन्तिके ।।१२६ ।। ||१२७॥ ॥१२८ ।। युग्मम्।। ||१२९।। ||१३०।। ||१३१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180