Book Title: Life of Hemchandracharya
Author(s): Manilal Patel
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

Previous | Next

Page 94
________________ अनुग्रहीतुम् पुनरिन्दुवंशं श्रीभीमदेवः किल भीम एव ॥१६॥ पाद १७ (आर्या)। अगणितपञ्चेषुबलः पुरुषोत्तमचित्तविस्मयं जनयन् । रामोल्लासनमूर्तिः श्रीकर्णः कर्ण इव जयति ॥ १७ ॥ पाद १८ ( अनुष्टुभ् )। अकृत्वासननिर्बन्धमभित्त्वा पावनी गतिम् । सिद्धराजः परपुरप्रवेशवशितां ययौ ॥१८॥ पाद १९ (अनुष्टुभ् )। मात्रयाप्यधिक' कंचिन्न सहन्ते जिगीषवः' । इतीव त्वं धरानाथ धारानाथमपाकृथाः ॥ १९ ॥ पाद २० (शार्दूलविक्रीडित)। क्षुण्णाः क्षोणिभृतामनेककटका भग्नाथ धारा ततः कुण्ठः सिद्धपतेः कृपाण इति रे मा मंसत क्षत्रियाः। आरूढप्रबलप्रतापदहनः संप्राप्तधारश्विरात् पीत्वा मालवयोषिदश्रुसलिलं हन्तायथेधिप्यते ॥ २० ॥ पाद २१ ( उपजाति)। श्रीविक्रमादित्यनरेश्वरस्य त्वया न किं विप्रकृतं' नरेन्द्र । यशांस्यहार्षीः प्रथमं समन्तात् । क्षणादभाङ्क्षीरथ राजधानीम् ॥ २१॥ पाद २२ (शिखरिणी)। मृडित्वा दोःकण्डूं समरभुवि वैरिक्षितिभुजां भुजादण्डे दद्गुः कति न नवखण्डी वसुमतीम् । यदेवं साम्राज्ये विजयिनि वितृष्णेव मनसा यशो योगीशानां पिबसि नृप तत्कस्य सदृशम् ॥ २२॥ पाद २३ (शिखरिणी)। जयस्तम्भान् सीमान्यधिजलधिवेलं निहितवान् । वितानैब्रह्माण्डं शुचिगुणगरिष्टैः पिहितवान् । यशस्तेजोरूपैरलिपत जगन्त्यर्धघुसृणैः कृतो यात्रानन्दो विरमति न किं सिद्धनृपतिः ॥ २३ ॥ पाद २४ (see above Note 24 )। पाद २५ (अनुष्टुभ्)। लब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः । तथापि तव सिद्धेन्द्र दातेत्युत्कंधरं यशः ॥ २५ ॥ पाद २६ (वसन्ततिलका)। उत्साहसाहसवता भवता नरेन्द्र धाराव्रतं किमपि तद्विषमं सिषेवे। यस्मात्फलं न खलु मालवमानमेव श्रीपर्वतोपि तव कन्दुककेलिपात्रम् ॥ २६ ॥ १. Cf. according to K. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124