________________
अनुग्रहीतुम् पुनरिन्दुवंशं
श्रीभीमदेवः किल भीम एव ॥१६॥ पाद १७ (आर्या)।
अगणितपञ्चेषुबलः पुरुषोत्तमचित्तविस्मयं जनयन् ।
रामोल्लासनमूर्तिः श्रीकर्णः कर्ण इव जयति ॥ १७ ॥ पाद १८ ( अनुष्टुभ् )।
अकृत्वासननिर्बन्धमभित्त्वा पावनी गतिम् ।
सिद्धराजः परपुरप्रवेशवशितां ययौ ॥१८॥ पाद १९ (अनुष्टुभ् )।
मात्रयाप्यधिक' कंचिन्न सहन्ते जिगीषवः' ।
इतीव त्वं धरानाथ धारानाथमपाकृथाः ॥ १९ ॥ पाद २० (शार्दूलविक्रीडित)।
क्षुण्णाः क्षोणिभृतामनेककटका भग्नाथ धारा ततः
कुण्ठः सिद्धपतेः कृपाण इति रे मा मंसत क्षत्रियाः। आरूढप्रबलप्रतापदहनः संप्राप्तधारश्विरात्
पीत्वा मालवयोषिदश्रुसलिलं हन्तायथेधिप्यते ॥ २० ॥ पाद २१ ( उपजाति)।
श्रीविक्रमादित्यनरेश्वरस्य
त्वया न किं विप्रकृतं' नरेन्द्र । यशांस्यहार्षीः प्रथमं समन्तात् ।
क्षणादभाङ्क्षीरथ राजधानीम् ॥ २१॥ पाद २२ (शिखरिणी)।
मृडित्वा दोःकण्डूं समरभुवि वैरिक्षितिभुजां
भुजादण्डे दद्गुः कति न नवखण्डी वसुमतीम् । यदेवं साम्राज्ये विजयिनि वितृष्णेव मनसा
यशो योगीशानां पिबसि नृप तत्कस्य सदृशम् ॥ २२॥ पाद २३ (शिखरिणी)।
जयस्तम्भान् सीमान्यधिजलधिवेलं निहितवान् ।
वितानैब्रह्माण्डं शुचिगुणगरिष्टैः पिहितवान् । यशस्तेजोरूपैरलिपत जगन्त्यर्धघुसृणैः
कृतो यात्रानन्दो विरमति न किं सिद्धनृपतिः ॥ २३ ॥ पाद २४ (see above Note 24 )। पाद २५ (अनुष्टुभ्)।
लब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः ।
तथापि तव सिद्धेन्द्र दातेत्युत्कंधरं यशः ॥ २५ ॥ पाद २६ (वसन्ततिलका)।
उत्साहसाहसवता भवता नरेन्द्र
धाराव्रतं किमपि तद्विषमं सिषेवे। यस्मात्फलं न खलु मालवमानमेव
श्रीपर्वतोपि तव कन्दुककेलिपात्रम् ॥ २६ ॥ १. Cf. according to K.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org