________________
74
पाद ५ ( अनुष्टुभ् )।
प्राबृड् जातेति हे भूपा मा म त्यजत काननम् ।
हरिः शेतेत्र नन्वेष मूलराजमहापतिः ॥५॥ पाद ६ (अनुष्टुभ् )।
मूलार्कः श्रूयते शास्त्रे सर्वाकल्याणकारणम् ।
अधूना मूलराजस्तु चित्रं लोकेषु गीयते ॥ ६ ॥ पाद ७ ( अनुष्टुभ् )।
मूलराजासिधारायौं निमग्ने ये महीभुजाः ।
उन्मजन्तो विलोक्यन्ते स्वर्गगङ्गाजलेषु ते ॥ ७ ॥ पाद ८ ( उपजाति)।
" श्रीमूलराजक्षितिपश्यबाहुबिभर्ति पूर्वाचलशृङ्गशोभाम् । संकोचयन् वैरिमुखाम्बुजानि
यस्मिन्नयं स्फूर्जति चन्द्रहासः ॥ ८ ॥ पाद ९ (अनुष्टुभ् )।
असंरब्धा अपि चिरं दुस्सहा वैरिभूभृतां ।
चण्डाश्चामुण्डराजस्य प्रतापशिखिनः कणाः ॥ ९ ॥ पाद १० (अनुष्टुभ् )।
श्रीमद्वल्लभराजस्य प्रतापः कोपि दुस्सहः ।
प्रसरन् वैरिभूपेषु दीर्घनिद्रामकल्पयत् ॥ १० ॥ पाद ११ ( अनुष्टुभ् )।
श्रीदुर्लभेशद्युमणे: पादास्तुष्टुविरेन कैः ।
लुलद्भिर्मेदिनीपालैालखिल्यैरिवाग्रतः ॥११॥ पाद १२ (अनुष्टुभ् )।
प्रतापतपनः कोपि मौलराजेनवोभवत् ।
रिपुस्त्रीमुखपमानां न सेहे यः किल श्रियम् ॥ १२ ।। पाद १३ (अनुष्टुभ् )।
कुर्वन् कुन्तलशैथिल्यं मध्यदेशं निपीडयन् ।
अङ्गेषु विलसन् भूमेर्भर्ताभूद् भीमभूपतिः ॥ १३ ॥ पाद १४ (अनुष्टुभ् )।
श्रीभीमपृतनोत्खातरजोभिरिभूभुजाम् ।।
अहो चित्रमवर्धन्त ललाटे जलबिन्दवः ॥ १४ ॥ पाद १५ ( अनुष्टुभ् )।
कर्णं च सिन्धुराजं च निर्जित्य युधि दुर्जयम् ।
श्रीभीमेनाधुना चक्रे महाभारतमन्यथा ॥ १५ ॥ पाद १६ (उपजाति)।
दुर्योधनोर्वीपतिजैत्रबाहुहीतचेदीशकरोवतीर्णः।
१. सर्वक MSS. २. So according to K. R. Probably the last Pada stood originally after the first one. %. So according to the MS. of Elph. Coll. (K.).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org