Book Title: Kathakosha
Author(s): Prabhachandracharya, A N Upadhye
Publisher: Bharatiya Gyanpith
View full book text
________________
श्री-प्रमाचन्द्र-कृतः मिमां देहि कर्णपूरं करोमि । तेनोक्तम्--किमेवं स्थितो ददामि।
उद्भो भूत्वा वा एवं स्थितो देहीत्युक्ते तेन बाणः पुङ्खपरम्परा३ विधिनानीय दत्ता। तमालोक्य देवदत्तया भर्तमित्रो ऽपि मञ्जरी
तथा याचितः । स च धनुर्वेदमजानन् लज्जितो ऽलीकोत्तरं दत्त्वा निजोत्तरीयं वस्त्रं तस्याः गण्डूकं कृत्वा निगतो द्रोणाचार्यसमीपे ६ बहुरत्नानि दत्त्वा विशिष्टो धनुर्वेदः शिक्षितः। मेघपुरपत्तने राजा मेघसेनो, राज्ञी मेघवती, पुत्री मेघमाला सुरूपा सकलकलाकुशला।
नैमित्तिकादेशात्तस्याश्चन्द्रवेधो रचितः । न कोऽपि तद्वेधुं समर्थः । ९ भर्तृ मित्रेणागत्य चन्द्रवेधं कृत्वा मेघमालां परिणीय द्वादशवर्षाणि तत्र स्थितः । धनपतिधनश्रीभ्यां वार्ता ज्ञात्वा भर्तृमित्रस्यानयनाय लेखाः
प्रेषिताः । मेघमालया गृहीत्वा ते तस्य न दर्शिताः । धूर्तंकलेख१२ वाहकेन बहिनिर्गतस्य दर्शितो लेखस्तमवधार्य विधिनैकरथेन मेघ
मालया सहागच्छन्महाटव्यां सुवेगभिल्लाधिपतिचौरेण ग्रहीतुमारब्धः।
युद्धे सर्वायुधक्षये हस्ते बाणमेकमालोक्य भर्तृमित्रेण मेघमाला १५ भणिता । प्रिये, रथादवतर त्वम् । तस्या अवतरन्त्याः सुवेगो रूपं पश्यन्नासक्तो भर्तृमित्रेणाक्ष्णोर्बाणेन विद्धो मृतो नरकं गतः ।।
[१७] गृहपतिगृहिणीत्यादि । १८ [फासिदिएण गोवे सत्ता गिहवदिपिया वि णासक्के ।
मारेदूण सपुत्तं धूसाए मारिदा पच्छा ॥१३५९॥ ]
अस्य कथा-आभीरदेशे नासिक्यनगरे गृहपतिः सागरदत्तो, २१ भार्या नागदत्ता, पुत्रः श्रीकुमारः, पुत्री श्रीषेणा। निजेन नन्दगोपाल
केन सह नागदत्ता कुकर्मरता जाता। एकदा नागदत्तासंकेतितो नन्दः शरीरकारणमिषं कृत्वा गृहे स्थितः । सागरदत्तः पश्चिमरात्रौ
२४ १) रुद्रो भूत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216