Book Title: Kathakosha
Author(s): Prabhachandracharya, A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 178
________________ कथाकोशः [९०*३१] समीपे कृत्वा कायोत्सर्गेण स्थिता। तत्क्षणादुपसर्गोपशान्तिरभूत् । तमतिशयमालोक्य रुद्रदत्तादयो बहवः श्रावका जाताः ।। [९०*३१] सुद्धे सम्मत्ते अविरदो वि । [ सुद्धे सम्मत्ते अविरदो वि अज्जेदि तित्थयरणामकम्म । जादो खु सेणिगो आगमेसि अरुहो अविरदो वि ।।७४०॥] अस्य कथा-मगधदेशे राजगृहनगरे राजा श्रेणिको राज्ञी सुप्रभा पुत्रः श्रेणिकः कुमारः। एकदा प्रत्यन्तवासिना पूर्ववैरिणा नागधर्मेण यो जात्यश्वो दुष्टः प्रेषितः स खञ्चितो ऽतिसरति । एकदा वाह्यालीगतो राजा तेनाश्वेन महाटवीं नीतः । तत्र पल्लीपतिर्यमदण्डो, भार्या विद्युन्मती, पुत्री तिलकावती। यमदण्डेन तिलकावत्याः पुत्राय राज्यं दातव्यमिति भणित्वा तस्मै दत्ता। राजगृहनगरं स प्रेषितः। तयोश्चिलातपुत्रनामा पुत्रो जातः। एकदा राज्ञा मम १२ बहुपुत्राणां मध्ये राजा को भविष्यतीति संचिन्त्य नैमित्तिकः पृष्टः । कथितं तेन-सिंहासनस्थो भेरी ताडयन् शुनां ददत्पायसं यो भोक्षते स राजा भविष्यति । भोजनदिने परीक्षा कृता। सिंहासनभेर्यादि- १५ हस्तः श्वभ्यो भरणादिकं ददता पायसं भुक्तम् । एकदाग्निदाहे जाते हस्तिसिंहासनच्छत्रादिकं श्रेणिकेन निःसारितम् । अयं योग्य इति ज्ञात्वा राज्ञा कुक्कुरविट्टलादिदोषं दत्त्वा स निःसारितः। १८ मध्याह्न नन्दग्रामाग्रहारब्राह्मणैरपि स तथा निःसारितः। तत्र परिव्राजकमठिकायां भोजनं कारितो विष्णुधर्मं प्रतिपन्नवान् । दक्षिणापथे चलितस्यान्यत्कथान्तरम् ॥ २१ द्रविडदेशे काञ्चीपुरे राजा वसुपालो, राज्ञी वसुमती, पुत्री वसुमित्रा, मन्त्री ब्राह्मणः सोमशर्मा, पत्नी सोमश्रीः, पुत्री अभयमतिः । अयं सोमशर्मा मन्त्री धर्मार्थी गङ्गादितीर्थमालोक्य व्याधुटितो २४ ब्राह्मणरूपधारिणः श्रेणिकस्य मार्गे मिलितः । भणितः स श्रेणिकेन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216