Book Title: Kathakosha
Author(s): Prabhachandracharya, A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 184
________________ कथाकोशः [ ९०*३२] १४३ जैनी बभूव । नागदत्ता पुत्रीमोहेन धनश्रीसमीपं गता । तया मुनिसमीपं नीता । अणुव्रतानि गृहीतानि । ततो बृहत्पुत्री समीपं गता तया बौद्धसत्ता कृता । लघ्व्या वारत्रयमणुव्रतानि ग्राहिता । धनवत्या नाशितानि । चतुर्थे वारे दृढा बभूव । कालान्तरे मृत्वा तत्कौशाम्बीवसुपालवसुमत्योः पुत्री जाता । कुदिने जातेति मञ्जूषायां स्वनामाङ्कितमुद्रिकादिभिर्निक्षिप्य यमुनायां प्रवाहिता । गङ्गां मिलित्वा पद्मद्रहे पतिता । कुसुमपुरे कुसुमदत्तमालाकारेण दृष्ट्वा स्वगृहमानीय स्ववनिताकुसुममालायाः समर्पिता । तया च पद्मद्रहे लब्धेति पद्मावतीसंज्ञया वर्धिता | युवतिर्जाता । केनचिद्दन्तिवाहनस्य तत्स्वरूपं कथितम् । तेन तत्र गत्वा तद्रूपं दृष्ट्वा मालाकारः पृष्टःसत्यं कथय कस्येयं पुत्रीति । तेन तदग्रे निक्षिप्ता मञ्जूषा । तत्र - स्थितनामाङ्कितमुद्रादिकं वीक्ष्य तज्जाति ज्ञात्वा परिणीता । स्व- १२ पुरमानीता वल्लभा जाता। कियति काले गते तत्पिता स्वशिरसि पलितमालोक्य तस्मै राज्यं दत्त्वा तपसा दिवं गतः । पद्मावती चतुर्थस्नानानन्तरं स्ववल्लभेन सुप्ता स्वप्ने सिंहगजादित्यानद्राक्षीत् । १५ राज्ञः स्वप्ने निरूपिते तेनोक्तम् — सिंहदर्शनात्प्रतापी गजदर्शनात् क्षत्रिय मुख्यो रविदर्शनात्प्रजाम्भोजसुखकरः पुत्रो भविष्यतीति संतुष्टा सुखेन स्थिता । इतस्तेरपुरे स गोपालः सेवालग्रहे तरीतुं प्रविष्टः १८ सेवालेन वेष्टितो मूत्वा पद्मावतीगर्भे स्थितः । तन्मृति परिज्ञाय संस्कार्यं श्रेष्ठी सुगुप्तमुनिनिकटे तपसा दिवं गतः । इतः पद्मावत्या दोहलको जातः । कथम् । मेघाडम्बरे चपलाकुले वृष्टी सत्यां स्वय- २१ मङ्कशं गृहीत्वा पुरुषवेषेण द्विपं चटित्वा पृष्ठे राजानं कृत्वा पत्तनाद्वहिर्भाव इति । तत्स्वरूपे राज्ञः कथिते तेन स्वमित्रवायुवेगखेचरेण मेघाडम्बरादिकं कारयित्वा नर्मदातिलकं द्विपमलंकृता राज्ञी स्वयं च २४ समारुह्य परिजनेन पुरान्निर्गतः । स च गजाङ्कुशमुल्लङघ्य पवनवेगेन गन्तुं लग्नः । सर्वो ऽपि जनः स्थितः । महाटव्यां वृक्षशाखामादाय Jain Education International For Private & Personal Use Only ३ ६ www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216