Book Title: Kathakosha
Author(s): Prabhachandracharya, A N Upadhye
Publisher: Bharatiya Gyanpith
View full book text
________________
१४७
३
कथाकोशः [९०२३२] गजः संन्यासेन दिवं यास्यतीति । प्रतिमास्थिरत्वमवधार्येदं लयणं केन कारितमिति पृष्टो मुनिः कथयति। विजया दक्षिणश्रेण्यां रथनूपुरपुरे राजानौ नीलमहानीलौ जातौ। संग्रामे शत्रुभिः कृतविद्याच्छेदावत्रोषितौ। ताविदं कारितवन्तौ। विद्याः प्राप्य विजया गतौ । तपसा दिवं गताविति निशम्य तौ दीक्षितौ । ज्येष्ठो ब्रह्मोत्तरं गत इतर आर्तेन हस्ती जातस्तेन देवेन संबोधितः । स जातिस्मरो भूत्वा सम्यक्त्वं व्रतानि चादाय तां पूजयितुं लग्नः । यदा कश्चिदिमां खनति तदा संन्यासं गृह्णीया इति प्रतिपाद्य देवो दिवं गतः । त्वयोत्पाटितेति स हस्ती संन्यासेन तिष्ठति । त्वं पूर्वमत्रैव गोपालो जिनपूजया राजा जातो ऽसि । इति संबोध्य नागकुमारो नागवापिका गतः। तृतीयदिने गत्वा राज्ञा तस्य हस्तिनो धर्मश्रवणं कृतम् । सम्यक्त्वपरिणामेन तनुं विसृज्य सहस्रारं गतो हस्ती। करकण्डुः , स्वस्य मातुर्बालदेवस्य च नाम्ना लयणत्रयं कारयित्वा प्रतिष्ठां च तत्रैव स्वतनुजवसुपालाय स्वपदं वितीर्य स्वपित्रा चेरमादिक्षत्रियैश्च दीक्षां वभार । पद्मावत्यपि। करकण्डुविशिष्टं तपो विधायायुरन्ते संन्यासेन वितनुर्भूत्वा सहस्रारं गतः। दन्तिवाहनादयः स्वस्य पुण्यानुरूपं स्वर्गलोकं गताः। इति जिनपूजया गोपो ऽप्येवंविधो जज्ञे ऽन्यः किं न स्यादिति ॥
सुकोमलैः सर्वसुखावबोधैः पदैः प्रभाचन्द्रकृतः प्रबन्धः। कल्याणकाले ऽथ जिनेश्वराणां सुरेन्द्रदन्तीव विराजते ऽसौ ।।
इति भट्टारकश्रीप्रभाचन्द्र कृतः कथाकोत: समाप्तः ॥ [संवत् १६३८ वर्षे श्रावणशुदि ३ रवौ श्रीमूलसंधे सरस्वतीगच्छे बलात्कारगणे श्रीकुन्दकुन्दाचार्यान्वये भट्टारकश्रीपद्मनन्दिदेवास्तत्पट्टे भ० श्रीसकलकीतिदेवास्तत्पट्टे भ० श्रीभुवनकी तिदेवास्तत्पट्टे भ० श्रीज्ञानभूषणदेवास्तत्प? भ० र श्रीविजयकीर्ति देवास्तत्पट्टे भ० श्रीशुभचन्द्रदेवास्तत्पट्टे भ० श्रीसुमतिकीतिदेवांस्तत्पट्टे भट्टारकश्रीगुणकीर्तिगुरूपदेशात् स्वात्मपठनार्थ लिख्यापितः ।।]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216