________________
कथाकोशः [ ९०*३२]
१४३
जैनी बभूव । नागदत्ता पुत्रीमोहेन धनश्रीसमीपं गता । तया मुनिसमीपं नीता । अणुव्रतानि गृहीतानि । ततो बृहत्पुत्री समीपं गता तया बौद्धसत्ता कृता । लघ्व्या वारत्रयमणुव्रतानि ग्राहिता । धनवत्या नाशितानि । चतुर्थे वारे दृढा बभूव । कालान्तरे मृत्वा तत्कौशाम्बीवसुपालवसुमत्योः पुत्री जाता । कुदिने जातेति मञ्जूषायां स्वनामाङ्कितमुद्रिकादिभिर्निक्षिप्य यमुनायां प्रवाहिता । गङ्गां मिलित्वा पद्मद्रहे पतिता । कुसुमपुरे कुसुमदत्तमालाकारेण दृष्ट्वा स्वगृहमानीय स्ववनिताकुसुममालायाः समर्पिता । तया च पद्मद्रहे लब्धेति पद्मावतीसंज्ञया वर्धिता | युवतिर्जाता । केनचिद्दन्तिवाहनस्य तत्स्वरूपं कथितम् । तेन तत्र गत्वा तद्रूपं दृष्ट्वा मालाकारः पृष्टःसत्यं कथय कस्येयं पुत्रीति । तेन तदग्रे निक्षिप्ता मञ्जूषा । तत्र - स्थितनामाङ्कितमुद्रादिकं वीक्ष्य तज्जाति ज्ञात्वा परिणीता । स्व- १२ पुरमानीता वल्लभा जाता। कियति काले गते तत्पिता स्वशिरसि पलितमालोक्य तस्मै राज्यं दत्त्वा तपसा दिवं गतः । पद्मावती चतुर्थस्नानानन्तरं स्ववल्लभेन सुप्ता स्वप्ने सिंहगजादित्यानद्राक्षीत् । १५ राज्ञः स्वप्ने निरूपिते तेनोक्तम् — सिंहदर्शनात्प्रतापी गजदर्शनात् क्षत्रिय मुख्यो रविदर्शनात्प्रजाम्भोजसुखकरः पुत्रो भविष्यतीति संतुष्टा सुखेन स्थिता । इतस्तेरपुरे स गोपालः सेवालग्रहे तरीतुं प्रविष्टः १८ सेवालेन वेष्टितो मूत्वा पद्मावतीगर्भे स्थितः । तन्मृति परिज्ञाय संस्कार्यं श्रेष्ठी सुगुप्तमुनिनिकटे तपसा दिवं गतः । इतः पद्मावत्या दोहलको जातः । कथम् । मेघाडम्बरे चपलाकुले वृष्टी सत्यां स्वय- २१ मङ्कशं गृहीत्वा पुरुषवेषेण द्विपं चटित्वा पृष्ठे राजानं कृत्वा पत्तनाद्वहिर्भाव इति । तत्स्वरूपे राज्ञः कथिते तेन स्वमित्रवायुवेगखेचरेण मेघाडम्बरादिकं कारयित्वा नर्मदातिलकं द्विपमलंकृता राज्ञी स्वयं च २४ समारुह्य परिजनेन पुरान्निर्गतः । स च गजाङ्कुशमुल्लङघ्य पवनवेगेन गन्तुं लग्नः । सर्वो ऽपि जनः स्थितः । महाटव्यां वृक्षशाखामादाय
Jain Education International
For Private & Personal Use Only
३
६
www.jainelibrary.org