________________
१४४
श्री-प्रभाचन्द्र-कृतः राजा स्थितः । स्वपुरमागत्य हा पद्मावति तव किमभूदिति महाशोकं कृतवान् । विबुधैः संबोधितः । इतः स हस्तो नानाजनपदानुल्लङ्घय ३ दक्षिणं गत्वा श्रान्तो महासरसि प्रविष्टः । जलदेवतया समुत्तार्य तटे
उपवेशिता सा। अत्रावसरे तत्रागतेन भटनाममालाकारेण रुदन्ती संबोधिता। हे भगिनि एहि मद्गृहमित्युक्ते तयोक्तम्-कस्त्वम् । तेनोक्तम्-मालिको ऽहमिति । ततो हस्तिनागपुरे स्वगृहे मद्भगिनीयमिति स्थापिता। तस्मिन् क्वापि गते तद्वनितया मारिदत्तया निर्धाटिता पितृवने पुत्रं प्रसूता। तदा मातङ्गेन तस्या प्रणम्योक्तम्९ मत्स्वामिनी त्वमिति । तयोक्तम्-कस्त्वम् । स आह-अत्रैव विजयाधं दक्षिणश्रेण्यां विद्युत्प्रभपुरेशविद्युत्प्रभविद्युल्लेखयोः सुतो ऽहं बालदेवः । स्ववनिताकनकमालया दक्षिणक्रीडा) गच्छतो मम रामगिरौ वीरभट्टारकस्योपरि न गतं विमानम् । क्रुद्धेन मया तस्योपसर्गः कृतः । पद्मावत्या तं निवार्य मम विद्याच्छेदः कृतः। तदनु मया सा प्रणम्योपशान्ति नीता। ततो हे स्वामिनि, मम विद्याप्रसादं कुर्वित्युक्ते तयोक्तम्--हस्तिनागपुरे पितृवने यद्रक्षसि बालं तद्राज्ये तव विद्याः सेत्स्यन्ति याहीत्युक्ते सोऽहं मातङ्गवेषेणेदं रक्षन् स्थित इति। तदनु संतुष्टया तस्य बाल: समर्पितः । त्वं वर्धयनमिति । ततस्तेन काञ्चनमालायाः समर्पितः। सा च करयोः कण्डूयुक्त इति करकण्डूनामा पालयितुं लग्ना । सा पद्मावती गान्धारी या ब्रह्मचारिणी तामाश्रिता। तया सह गत्वा समाधिगुप्तमुनि दीक्षां याचितवती ।
तेनाभाणि-न दीक्षाकाल: प्रवर्तते । पूर्व वारत्रयं यद्वतं खण्डितं २१ तत्फलेन त्रिर्दु:खमासीत्तदुपशमे पुत्रराज्यं वीक्ष्य तेन सह तपो
भविष्यतीत्युक्ते संतुष्टा पुत्रं विलोक्य ब्रह्मचारिणीनिकटे स्थिता।
स बालस्तेन सर्वकलासु कुशलः कृतः। तौ खेचरकरकण्डू पितृवने २४ यावत्तिष्ठतस्तावज्जयभद्रवीरभद्रावाचायौँ समागतौ। तत्र नर
कपालमुखे लोचनयोश्च वेणुत्रयमुत्पन्नमालोक्य केनचिद्यतिनोक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org