________________
१४२
श्री-प्रभाचन्द्र-कृतः
अत्र करकण्डमहाराजस्य कथा
गोपो विवेकविकलो मलिनो ऽशुचिश्च राजा बभूव सगुणः करकण्डुनामा। इष्ट्वा जिनं भवहरं स सरोजकेन
नित्यं ततो हि जिनपं विभुमर्चयामि । ६ अस्य वृत्तस्य कथा। तद्यथा-श्रेणिकस्य गौतमस्वामिना यथा
कथिताचार्यपरम्परयागता सा संक्षेपेण कथ्यते ! अत्रैवार्यखण्डे
कुन्तलविषये तेरपुरे राजानौ नीलमहानीलौ जातौ। श्रेष्ठी ९ वसुमित्रो, भार्या वसुमती, तद्गोपालो धनदत्तः । तेनैकदाटव्यां
भ्रमता सरसि सहस्रदलकमलं दृष्टं गृहीतं च, तदा नागकन्या
प्रगटीभूय तं वदति-सर्वाधिकस्येदं प्रयच्छति । तदनु सकमलेन १२ स्वगृहमागत्य श्रेष्ठिनस्तद्वृत्तान्तं निरूपितवान् । तेन राज्ञो
भाषितम् । राज्ञा गोपालेन श्रेष्ठिना च सहस्रकूटजिनालयं गत्वा
जिनमभिवन्द्य सुगुप्तमुनि च। ततो राज्ञा पृष्टो मुनिः-कः १५ सर्वोत्कृष्टः इति। तेन जिनो निरूपितः । श्रुत्वा गोपालो जिनाने
स्थित्वा हे सर्वोत्कृष्ट, कमलं गृहाणेति देवस्योपरि निक्षिप्य गतः ।। अत्रापरवृत्तान्तः। तथा हि-श्रावस्तिपुर्यां श्रेष्ठी नागदत्तो, भार्या नागदत्ता। द्विजसोमशर्मणो ऽनुरक्तां तां ज्ञात्वा श्रेष्ठी दीक्षितो दिवं गतः । तस्मादागत्याङ्गदेशचम्पायां राजा वसुपालो, देवी वसुमती,
तयोः पुत्रो दन्तिवाहननामा जातः । एवं स वसुपालो यावत्सुखेनास्ते २१ तावत्कलिङ्गदेशे सोमशर्मा द्विजो मृत्वा नर्मदातिलकनामा हस्ती
जातो धृत्वा वसुपालाय प्रेषितः । स तत्र तिष्ठति । सा नागदत्ता
मृत्वा च तामलिप्तनगर्यां वणिग्वसुदत्तस्य भार्या नागदत्ता जाता। २४ सा द्वे सुते लेभे धनवती धनश्रियं च। धनवती नागानन्दपुरे
वैश्यधनदत्तधनमित्रयोः पुत्रेण धनपालेन परिणीता। धनश्रीर्वत्सदेशे कौशाम्बीपुरे वसुपालवसुमत्योः श्रेष्ठीवसुमित्रेण परिणीता। तत्संसर्गेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org