________________
कथाकोशः [ ९०३२ ]
रोषोपशमनार्थं तया कथा कथिता । वत्सदेशे कौशम्बीनगर्यां राजा प्रजापालो, राज्ञी यशस्विनी, श्रेष्ठी सागरदत्तो, वसुमती कलत्रम् | द्वितीयः श्रेष्ठी समुद्रदत्तः । प्रीतिवर्धनार्थं सागरंदत्तेनोक्तम् - भो समुद्रदत्त, यदि तव पुत्री तदा यो मम पुत्रो भविष्यति तदा तस्य दातव्या । अथवा मे पुत्री तदा तव पुत्रस्य । एवं सागरदत्तवसुमत्योः पुत्रः सर्पो वसुमित्रनामा जातः । समुद्रदत्तासमुद्रदत्तयोः पुत्री नागदत्ता । झकटके सति सर्पेण परिणीता नागदत्ता । भोगानुभवने शरीरविकारमालोक्य जने विरूपकं वदति सति जनन्या पृष्टा - पुत्रि कीदृशस्तव भर्ता । कथितं तया - दिवा सर्पो रात्रौ नवयौवनो रूपवान् पुरुषः। अनुभूय दिवा पुनः सर्पः पिट्टारके तिष्ठति । एतप्रच्छन्नया दृष्ट्वा मन्त्रयित्वा समुद्रदत्तया रात्रौ पिट्टारके दग्धे निराश्रयः स पुरुष एव स्थितः । भवद्गुरूणामप्येव जीवो विष्णुपदे १२ तिष्ठत्विति मया चिन्तितम् । इत्याकर्ण्य चित्तस्थकोपेन पापद्धि च गतः श्रेणिक आतापस्थं यशोधर मुनिमालोक्यामुं पापद्धिविघ्नकारिणं मारयामीति संचिन्त्य ये पञ्चशतकुक्कुरा मुक्ता मुनेः प्रदक्षिणां कृत्वा १५ प्रणताः । बाणाश्च पुष्पमाला जाताः । तदा तेन सप्तमनरके त्रयस्त्रिशत्सागरोपमायुर्बद्धम् । कुक्कुरबाणाभ्यां तमतिशयमालोक्य पूर्णयोगं तं मुनिं प्रणम्य तत्त्वमाकर्ण्योपशमसम्यक्त्वं गृहीत्वा प्रथमनरके चतुरशीतिवर्षसहस्रमात्रमायुः कृतम् । त्रिगुप्तमुनीनां समीपे क्षायोपशमिकसम्यक्त्वं वर्धमानतीर्थंकरसमीपे क्षायिकसम्यक्त्वमित्यग्रे ॥
[ ९० ३२] सा समत्था जिणभत्ती ।
[ एया विसा समत्या जिणभत्ती दुग्गइं णिवारेदुं । पुष्णाणि य पूरेदुं आसिद्धिपरंपरसुहाणं ||*७४६||
Jain Education International
For Private & Personal Use Only
१४१
१८
२१
www.jainelibrary.org