________________
१४०
श्री-प्रभाचन्द्र-कृतः
गवेषयति चेटकः। काकसवर्धकिना यतः स्त्रीयन्त्रं कृतं तेन परी
क्ष्यन्ते चित्रकाराः। पद्मावत्या अनुविद्धरूपलब्धवरश्चित्रभूतिनामा ३ चित्रकरो देशादागत्य अन्यचित्रकरगृहे प्रविष्टः काकसेन चेटक
राजस्य दर्शितः। गौरवभोजनादिकं दत्तम् । रात्रौ राजकुले तां
यन्त्रस्त्रियं सहसा भङ क्त्वा भीतचित्तः साक्षादिवात्मानमवलम्बिका६ दिकं कुड्ये प्रदादृश्यो बभूव । तमतिशयमालोक्य राज्ञा तस्या
भयदानं दत्तम् । चेटकसुभद्राप्रियकारिण्यादीनामनुविद्धरूपं लिखितम्। तेन नित्यं राजा विलोकते। चेलिन्या रूपं नागच्छति । तस्या गुह्यदेशे लिखिन्यामपि [?] बिन्दुपाते रूपानुविद्धतायां राजरोषं ज्ञात्वा चेलिनीरूपं तेनानीय राजगृहनगरे श्रेणिकराजस्य दर्शितम् । तस्य
कामासक्तिः। तदर्थमभयकुमारो बहुभाण्डं गृहीत्वा गन्धवादवणि१२ क्सार्थवाहो भूत्वा विशाली गतः। राजानं दृष्ट्वा राजकुलसमीपे
समर्थ्य क्रियाणकं दत्त्वा कन्यायां चेटिकागमनसमये श्रेणिकरूपस्य पूजनं प्रशंसनं करोति। चेटिका: कन्यानां कथयन्ति । ताश्च द्रष्टुं समायाताः । सुज्येष्ठाचेलिनीभ्यां रूपासक्ताभ्यां एकान्ते स भणितःआवां गृहीत्वा गच्छ त्वम्। सुरङ्गाद्वारे निर्गमनकाले चेलिन्या सुज्येष्ठा
अतीर्षयाभरणव्याजेव वञ्चिता। ततः प्रभाते चेटकराजस्य या भगिनी १८ यशस्वती कन्तिका तत्पाश्र्वे अजिंका जाता। चेलिनी च तेनानीता
श्रेणिकेन परिणीता। तस्याः पुत्रो वारिषेणः धारिण्यः पुत्र कूणिकः । अथ श्रेणिकचेलिन्योनित्यं विवादो विष्णुधर्मो जिनधर्म एव । भणिता श्रेणिकेन-भर्तारं देवता नारीति लौकिकवचनात् तवाहमेव देवः, मम ये देवगुरवः तवापि देवगुरवः। एतदाकर्ण्य तया भणितम् - भगवतो भोजनं ददामि । निमन्त्र्यानीय गौरवेण महामण्डपे धृताः। अस्माकं ध्यानस्थितानामात्मा विष्णुपदे तिष्ठतीत्युक्त्वा तेषां ध्यानस्थितानां तया स मण्डपो दाहितः। ते च नष्टाः । रुष्टेन राज्ञा सा भणिता। यदि भक्तिर्नास्ति तदा किं मारणं तेषां चिन्त्यते तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org