Book Title: Kathakosha
Author(s): Prabhachandracharya, A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 177
________________ . १३६ श्री प्रभाचन्द्र-कृत: नमस्कृत्य मस्तकविन्यस्तहस्तैर्भणितम् । सर्वोत्तमः जिनो जिनमतं चास्त्येव । ब्रह्मदत्तचक्रिकथा च सर्वेषां जिनदासेन कथिता । ततः ३ उत्तरकुरुस्थेनासनकम्पनादनावृत्य यक्षेण चक्रं मुक्तम् । तेन मुकुटे प्रहतो वडवामुखे पतितः । कालिराक्षसः श्रिया जिनदासादीनामर्थ्यो दत्तः । गृहागतेन जिनदासेनावधिज्ञानी वैरकारणं पृष्टः । तेन ६ कथितमिति ॥ [९० ३०] द्वितीयं दर्शनमुखाख्यानम् । लाटदेशे द्रोणीमतिपर्वतसमीपे गलगोद्रहपत्तने श्रेष्ठी जिनदत्तो, ९ भार्या जिनदता, पुत्री जिनमतिः । द्वितीयः श्रेष्ठी नागदत्तो, भार्या नागदत्ता, पुत्रो रुद्रदत्तः । रुद्रदत्तनिमित्तं नागदत्तेन जिनमतिः याचिता । माहेश्वरस्य न दत्ता धर्मनाशभयात् । एको धर्म इति १२ भणित्वा नागदत्तरुद्रदत्तौ समाधिगुप्तमुनिपार्श्वे मायया श्रावको जातौ । ततो जिनमति परिणीय पुनर्माहेश्वरी जाती । रुद्रदत्तो भगति - त्वं मदीयं धर्मं गृहाण । जिनमत्या भणितम् - न युक्तं मे १५ धर्मं त्यक्तुम् त्वं मदीयं धर्मं गृहाण । रुद्रदत्तेनापि भणितम् । न युक्तं मे शिवधर्मं त्यक्तुम् । निजनिजधर्मकथनविवादाज्झकटकश्च नित्यं तयोः । रुद्रदत्तेन च भणितम् - वर्सात यासि मुनिभ्यो दानं ददासि १८ यदि तदा त्वां निर्द्धायामि। जिनमत्या भणितम् - त्वमपि यद्येवं निजधर्मं करोषि तदाहं म्रिये । गृहे निजनिजधर्मंस्तयोः । एकदा पत्तनपूर्वदिशि महाटव्यां ये भिल्लास्तैः पत्तने अग्निना सर्वतः २१ प्रज्वालिते जिनमत्या भणितो रुद्रदत्तः - यो देवो ऽद्य रक्षति तस्य धर्मो द्वयोरपि । एवमस्त्विति भणित्वा श्रावणं कृत्वा रुददत्तेन रुद्राय अर्थ्यो दत्तः । तदपि न विशेषः । ततो ब्रह्मादिभ्यो ऽपि दत्ते न २४ विशेषः । ततो जिनमतिः पञ्चपरमेष्ठिभ्यो अर्ध्यं दत्वा पतिपुत्रवधूः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216