________________
. १३६
श्री प्रभाचन्द्र-कृत:
नमस्कृत्य मस्तकविन्यस्तहस्तैर्भणितम् । सर्वोत्तमः जिनो जिनमतं चास्त्येव । ब्रह्मदत्तचक्रिकथा च सर्वेषां जिनदासेन कथिता । ततः ३ उत्तरकुरुस्थेनासनकम्पनादनावृत्य यक्षेण चक्रं मुक्तम् । तेन मुकुटे प्रहतो वडवामुखे पतितः । कालिराक्षसः श्रिया जिनदासादीनामर्थ्यो दत्तः । गृहागतेन जिनदासेनावधिज्ञानी वैरकारणं पृष्टः । तेन ६ कथितमिति ॥
[९० ३०] द्वितीयं दर्शनमुखाख्यानम् ।
लाटदेशे द्रोणीमतिपर्वतसमीपे गलगोद्रहपत्तने श्रेष्ठी जिनदत्तो, ९ भार्या जिनदता, पुत्री जिनमतिः । द्वितीयः श्रेष्ठी नागदत्तो, भार्या नागदत्ता, पुत्रो रुद्रदत्तः । रुद्रदत्तनिमित्तं नागदत्तेन जिनमतिः याचिता । माहेश्वरस्य न दत्ता धर्मनाशभयात् । एको धर्म इति १२ भणित्वा नागदत्तरुद्रदत्तौ समाधिगुप्तमुनिपार्श्वे मायया श्रावको जातौ । ततो जिनमति परिणीय पुनर्माहेश्वरी जाती । रुद्रदत्तो भगति - त्वं मदीयं धर्मं गृहाण । जिनमत्या भणितम् - न युक्तं मे १५ धर्मं त्यक्तुम् त्वं मदीयं धर्मं गृहाण । रुद्रदत्तेनापि भणितम् । न युक्तं मे शिवधर्मं त्यक्तुम् । निजनिजधर्मकथनविवादाज्झकटकश्च नित्यं तयोः । रुद्रदत्तेन च भणितम् - वर्सात यासि मुनिभ्यो दानं ददासि १८ यदि तदा त्वां निर्द्धायामि। जिनमत्या भणितम् - त्वमपि यद्येवं
निजधर्मं करोषि तदाहं म्रिये । गृहे निजनिजधर्मंस्तयोः । एकदा पत्तनपूर्वदिशि महाटव्यां ये भिल्लास्तैः पत्तने अग्निना सर्वतः २१ प्रज्वालिते जिनमत्या भणितो रुद्रदत्तः - यो देवो ऽद्य रक्षति तस्य धर्मो द्वयोरपि । एवमस्त्विति भणित्वा श्रावणं कृत्वा रुददत्तेन रुद्राय अर्थ्यो दत्तः । तदपि न विशेषः । ततो ब्रह्मादिभ्यो ऽपि दत्ते न २४ विशेषः । ततो जिनमतिः पञ्चपरमेष्ठिभ्यो अर्ध्यं दत्वा पतिपुत्रवधूः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org