________________
कथाकोशः [९०*२९]
.१३५ रुजापहारे हारो योजनघोषा भेरी च दत्ता। स च तीर्थकरं वन्दित्वा गणधरो जातः ॥
[९०५२८] दंसणभट्ठो भट्ठो। [ दंसणभट्ठो भट्ठो ण हु भट्ठो होदि चरणभट्ठो हु।
अत्र कथा-काम्पिल्यनगरे राजा ब्रह्मरथो, राज्ञी रामिल्या, तत्पुत्रो ऽरिष्टनेमितीर्थे ब्रह्मदत्तो द्वादशसकलचक्रवर्ती । एकदा विजय- ६ सेनसूपकारेण भोक्तुमुपविष्टस्यात्युष्णा क्षैरेयी दत्ता। भोक्तुमसमर्थेन तेन हत्वा स मारितः। स च मृत्वा लवणसमुद्रे रत्नद्वीपे व्यन्तरो देवो भूत्वा विभङ्गज्ञानेन वैरं ज्ञात्वा परिव्राजकरूपेण ९ मृष्टकेलकादिफलानि चक्रवतिने दत्तवान् । तानि भक्षयित्वा तेनान्तःपुरादिकयुक्तं तं समुद्रमध्ये नीत्वा मारणार्थमुपसर्गः कृतः । तेन पञ्चनमस्कारान् स्मरन्तो मारयितुं न शक्यन्ते । तेन च ततस्तेन १२ प्रकटीभूय प्रचार्य भणितो ब्रह्मदत्तः-रे त्वां मारयामि, किंतु यदि जिनशासनं नास्ति भणित्वा पञ्चनमस्कारानालिख्य पादेन विनाशयिष्यसि तदा न मारयामि । एतस्मिन् कृते जलमध्ये तेन स मारितः। १५ सप्तमं नरकं गतः । मन्त्रिपुरोहितान्तःपुराणि सम्यक्त्वपञ्चनमस्कारस्मरणात् स्वर्गे देवा बभूवुः ॥ [९०*२९] दंसणममुयंतस्स।
१८ दसणममुयंतस्स हु परिवडणं णत्थि संसारे ॥७३९।। ]
अत्र कथा-पाटलिपुरनगरे श्रेष्ठी जिनदत्तो, भार्या जिनदासी, पुत्रो जिनदासः सुवर्णद्वीपाद्धनमुपायं व्याघुटितो योजनशतविस्तार- २१ प्रोहणस्थेन कालिदेवेन भणितः । भो जन, जिनमतं च नास्तीति भण । अन्यथा मारयामि त्वाम् । जिनदासादिभिः वर्धमानस्वामिनं
Jain Education International
.
For Private & Personal Use Only
www.jainelibrary.org