Book Title: Katantra Vyakaranam Part 04
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 10
________________ कातन्त्रव्याकरणम् यीशवीयवत्सरे द्वितीयभागस्य द्वितीयखण्डम्, २००० तमे यीशवीयवत्सरे आख्याताध्यायात्मकतृतीयभागस्य प्रथमखण्डम्, २००३ तमे च यीशवीयवत्सरे तृतीयभागस्य द्वितीयखण्डं प्रकाशितम्। अयं चान्तिमो वर्तते कृत्प्रत्ययात्मकश्चतुर्थभागः। इदं नाविदितं विदुषां यत् 'मोदकं देहि' इति वचने 'मा+उदकम्' इति सन्धिविच्छेदमाश्रित्य सन्धिप्रकरणम्, 'मोदकम्' इति स्याद्यन्तपदमधिकृत्य नामचतुष्टयाध्यायम्, 'देहि' इति क्रियापदमनुसृत्याख्याताध्यायं च प्रायेण यीशवीयप्रथमशताब्द्यां रचितवान् आचार्यः शर्ववर्मा। वृक्षादिशब्दवदन्यानपि कृत्प्रत्ययान्तान् शब्दान् रूढानङ्गीकृत्य स कृत्प्रत्ययविधायकानि सूत्राणि नैव प्रणिनाय। तस्य भागस्य सम्पूर्तिः कृता वररुचिना कात्यायनेन। यथोच्यते ग्रन्थादौ वृत्तिकारेण दुर्गसिंहेन वृक्षादिवदमी रूढाः कृतिना न कृताः कृतः। कात्यायनेन ते सृष्टा विबुद्धिप्रतिबुद्धये।। इति। संस्कृतसाहित्ये कात्यायननाम्ना प्रसिद्धा अनेके आचार्या उपलभ्यन्ते। पाणिनीयसूत्राणां वार्तिककारस्य शुक्लयजुःप्रातिशाख्यकारस्य चापि नामधेयं कात्यायन आसीत्। कलापचन्द्रकार: कविराजसुषेणविद्याभूषणो वररुचिं कातन्त्रैकदेशीयमाचार्य मनुते। एतेन कृत्सूत्ररचनाकारो वररुचिकात्यायनो बभूवेति वक्तुं शक्यते। कृद्भागो वर्तते कातन्त्रव्याकरणस्यैकदेशस्तस्य प्रणेता वररुचिर्भवति कातन्त्रैकदेशीयाचार्यः। "औरिम्" (२।१।४१) इति सूत्रव्याख्याने विवरणपञ्जिकाकारेण त्रिलोचनदासेन यदुक्तं "कैश्चित् कातन्त्रैकदेशीयैः' इत्यादि, तत्र कातन्त्रैकदेशीयैरिति प्रतीकपदं व्याचक्षाण: कलापचन्द्रकार: कविराजसुषेणविद्याभूषणाचार्य एवं वदति"कैश्चित् कातन्त्रैकदेशीयैरिति पञ्जी। कातन्त्रशब्दोऽत्र सकलवैयाकरणपरः। कातन्त्रं ये विदन्ति सूरयः इत्यर्थेऽण्प्रत्ययविधानात् तदेकदेशीयैर्वररुचिप्रभृतिभिरित्यर्थः" (क०च० २।१।४१) इति। तदनुसारं कातन्त्रपदेन कातन्त्रव्याकरणवेत्तार: सर्वे विद्वांसो गृह्यन्ते, तेषां मध्ये कृत्प्रत्ययरूपैकदेशीयरचनादिवशाद् वररुचिप्रभृतयः केचिदाचार्या भवन्ति कातन्त्रैकदेशीयाः। ___ एकस्मिन् स्थले कलापचन्द्रकार: कृत्प्रत्ययानां रचनाकारस्य नामधेयं वररुचिं वदति, किं च स एवमपि स्वीकरोति यदाचार्यशर्ववर्मसम्मतसिद्धान्तानुसारमेव वररुचिः कृत्सूत्राणां प्रणयनं चकार। एतेन शर्ववर्मसिद्धान्तैः सह वररुचिसिद्धान्तानामभेदः सिध्यतीत्यनयैव धिया दुर्गसिंहः कृत्सूत्राणि व्याचष्टे"वररुचिना तृनादिकं पृथगेवोक्तम्, ततश्च वररुचिशर्ववर्मणोरेकबुद्ध्या दुर्गसिंहेनोक्तम्' (कलापचन्द्रः २।१।६८) इति। अर्थात् शर्ववर्मप्रणीतसूत्रव्याख्यानन्तरं दुर्गसिंहो यत् कृत्सूत्राणि व्याख्यातवान्, तत्र कारणं

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 824