Book Title: Katantra Vyakaranam Part 04 Author(s): Jankiprasad Dwivedi Publisher: Sampurnanand Sanskrit Vishva Vidyalay View full book textPage 9
________________ ।। श्रीः ।। भूमिका कातन्त्रकौमारकलापशब्दैर्यद् विश्रुतं भारतभूमिभागे । नेपालभूटानत्रिविष्टपादौ यद् गौरवं जैन-परम्परायाः ।। १ । यच्चान्ध्रदेशीयसभासुपूज्यश्चक्रे कृती पण्डितशर्ववर्मा । संक्षेपतश्चारुतयाल्पकाले लोकाभिधानस्य सुबोधनार्थम् ।। २ । तस्यैव सम्पादनकार्यजातं सार्धं समीक्षादिविधाभिराढ्यम् । श्रेयःसनाथाभ्युदयाय भूयात् स्कन्दप्रभावात् समुपासकानाम् ।। ३ । 'वृत्ति-टीका-विवरणपञ्जिका-कलापचन्द्र' इति व्याख्याचतुष्टयोपेतस्य, सूत्रार्थरूपसिद्धि-विविधपरिशिष्ट-समीक्षासंवलितस्य च कातन्त्रव्याकरणस्य कृत्प्रत्ययाध्यायात्मकं चतुर्थभागं समुपस्थापयनिदानी महतीं मुदमनुभवामि। इदमवश्यमवगन्तव्यं यत् पाणिनीयव्याकरणे महाभाष्य-काशिकावृत्ति-न्यास-पदमञ्जरीति ग्रन्थचतुष्टयस्य यन्महत्त्वमङ्गीक्रियते समीक्षकैस्तदेव महत्त्वं कातन्त्रव्याकरणे दुर्गवृत्तेर्दुर्गटीकायास्त्रिलोचनदासीयविवरणपञ्जिकाया: सुषेणविद्याभूषणकृतकलापचन्द्रस्य चाप्यसन्दिग्धं स्वीक्रियते। यत्रांशे कलापचन्द्रटीका नोपलभ्यते तत्र 'कृत्-शिरोमणि' इत्यपरपर्याया रघुनन्दनभट्टाचार्यशिरोमणिप्रणीता कलापतत्त्वार्णवाख्या व्याख्या संगृहीता प्रकृते षष्ठे खण्डे। इदमप्यवगन्तव्यं यत् २।२।९० तमे दिनाङ्के या प्रकाशनयोजना मया सम्पूर्णानन्द-संस्कृतविश्वविद्यालये प्रस्तुता, यस्या अपेक्षितं स्पष्टीकरणं च २०/ ६/९४ तमे दिनाङ्के कृतमासीत्, सा ५/७/१९९६ तमे दिनाङ्के विश्वविद्यालयेन स्वीकृता, साम्प्रतमस्य चतुर्थभागस्य प्रकाशनेन परिपूर्णतां प्राप्नोति। इतः पूर्वं १९९७ तमे यीशवीयवत्सरे सन्धिप्रकरणात्मकः प्रथमो भागः, १९९८ तमे यीशवीयवत्सरे नामचतुष्टयाध्यायात्मकद्वितीयभागस्य प्रथमखण्डम्, १९९९ तमेPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 824