SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ।। श्रीः ।। भूमिका कातन्त्रकौमारकलापशब्दैर्यद् विश्रुतं भारतभूमिभागे । नेपालभूटानत्रिविष्टपादौ यद् गौरवं जैन-परम्परायाः ।। १ । यच्चान्ध्रदेशीयसभासुपूज्यश्चक्रे कृती पण्डितशर्ववर्मा । संक्षेपतश्चारुतयाल्पकाले लोकाभिधानस्य सुबोधनार्थम् ।। २ । तस्यैव सम्पादनकार्यजातं सार्धं समीक्षादिविधाभिराढ्यम् । श्रेयःसनाथाभ्युदयाय भूयात् स्कन्दप्रभावात् समुपासकानाम् ।। ३ । 'वृत्ति-टीका-विवरणपञ्जिका-कलापचन्द्र' इति व्याख्याचतुष्टयोपेतस्य, सूत्रार्थरूपसिद्धि-विविधपरिशिष्ट-समीक्षासंवलितस्य च कातन्त्रव्याकरणस्य कृत्प्रत्ययाध्यायात्मकं चतुर्थभागं समुपस्थापयनिदानी महतीं मुदमनुभवामि। इदमवश्यमवगन्तव्यं यत् पाणिनीयव्याकरणे महाभाष्य-काशिकावृत्ति-न्यास-पदमञ्जरीति ग्रन्थचतुष्टयस्य यन्महत्त्वमङ्गीक्रियते समीक्षकैस्तदेव महत्त्वं कातन्त्रव्याकरणे दुर्गवृत्तेर्दुर्गटीकायास्त्रिलोचनदासीयविवरणपञ्जिकाया: सुषेणविद्याभूषणकृतकलापचन्द्रस्य चाप्यसन्दिग्धं स्वीक्रियते। यत्रांशे कलापचन्द्रटीका नोपलभ्यते तत्र 'कृत्-शिरोमणि' इत्यपरपर्याया रघुनन्दनभट्टाचार्यशिरोमणिप्रणीता कलापतत्त्वार्णवाख्या व्याख्या संगृहीता प्रकृते षष्ठे खण्डे। इदमप्यवगन्तव्यं यत् २।२।९० तमे दिनाङ्के या प्रकाशनयोजना मया सम्पूर्णानन्द-संस्कृतविश्वविद्यालये प्रस्तुता, यस्या अपेक्षितं स्पष्टीकरणं च २०/ ६/९४ तमे दिनाङ्के कृतमासीत्, सा ५/७/१९९६ तमे दिनाङ्के विश्वविद्यालयेन स्वीकृता, साम्प्रतमस्य चतुर्थभागस्य प्रकाशनेन परिपूर्णतां प्राप्नोति। इतः पूर्वं १९९७ तमे यीशवीयवत्सरे सन्धिप्रकरणात्मकः प्रथमो भागः, १९९८ तमे यीशवीयवत्सरे नामचतुष्टयाध्यायात्मकद्वितीयभागस्य प्रथमखण्डम्, १९९९ तमे
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy