SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ( २ ) शर्ववर्मविरचितं कातन्त्रव्याकरणमिदं काश्मीरदेशे प्रचार प्राप्तम्। व्याकरणविषयावबोधः सुखेन स्यादिति कातन्त्रव्याकरणस्य प्रतिज्ञा। सा च चरितार्था दृश्यते व्याकरणेऽस्मिन् । सारनाथस्थस्य केन्द्रीय-उच्चतिब्बती-शिक्षासंस्थानस्य शब्दविद्यासङ्कायाध्यक्षचरा आचार्यजानकीप्रसादद्विवेदा दीर्घदीर्धेभ्यो वर्षेभ्यः कातन्त्रव्याकरणस्य समुद्धाराय बद्धपरिकराः सन्ति। श्रीदुर्गसिंहकृतां कातन्त्रवृत्ति कातन्त्रटीका, त्रिलोचनदासकृतां कातन्त्रवृत्तिपञ्जिकां, कविराजसुषेणशर्मकृतां कलापचन्द्रटीकाम्, बिल्वेश्वरकृतां टीकाञ्च सम्यग्रूपेण परिशील्य प्रो. द्विवेदिनो राष्ट्रभाषोपनिबद्धया स्वसमीक्षया कातन्त्रव्याकरणस्याभिप्रायं प्रस्फोरितवन्तः। तत्सारस्वताध्यवसायोऽयं सम्पूर्णानन्दसंस्कृतविश्वविद्यालयीयप्रकाशनसंस्थानेन विविधैर्भागैः प्रकाशितः। इतः पूर्वं सन्धिप्रकाशात्मक: प्रथमभागः १९९७ मितख्रिस्ताब्दे, द्वितीयभागस्य प्रथमखण्डो नामचतुष्टयाध्यायस्य पूर्वार्द्धपादत्रयात्मकः १९९८ मितख्रिस्ताब्दे, तस्यैवाध्यायस्योत्तरार्द्धपादत्रयात्मको भागो द्वितीयभागस्य द्वितीयखण्डात्मकः १९९९ मितख्रिस्ताब्दे, तृतीयभागस्य प्रथमखण्डः क्रियापदान्वयात्मकः २००० मितख्रिस्ताब्दे, तृतीयभागस्य द्वितीयखण्ड आख्याताध्यायस्यावशिष्टान् पञ्चपादान् क्रोडीकृत्य २००३ मितख्रिस्ताब्दे क्रमेण प्राकाश्यतामुपगताः। तस्यैव कातन्त्रव्याकरणस्य वृत्ति-टीका-विवरणपञ्जिका-कलापचन्द्रेति व्याख्याचतुष्टयोपेतस्य सूत्रार्थरूपसिद्धिविविधपरिशिष्टसमीक्षासंवलितस्य च कृत्प्रत्ययाध्यायात्मकश्चतुर्थो भागः प्रो. जानकीप्रसादद्विवेदानामध्यवसायेन मम कौलपत्ये प्राकाश्यतामुपनीयते प्रकाशन-संस्थानेनेति महतीं मुदमनुभवामि। एतदर्थम् आचार्यद्विवेदान् कातन्त्रव्याकरणे कृतभूरिपरिश्रमान् भूयो भूयोऽभिवादये जयजीवशब्दैश्च बहुशः सभाजये। अतः परं प्रकाशनसंस्थाननिदेशकानां डॉ. हरिश्चन्द्रमणित्रिपाठिनां तद्वशंवदानां डॉ. ददनउपाध्याय - डॉ.हरिवंशकुमारपाण्डेयप्रभृतीनामहर्निशोद्यममहिम्नैव प्रकाशनकार्य सारस्वतजगति प्रथिम्नः परां काष्ठामधिरूढमिति समनुभूय सपरिकराय डॉ. त्रिपाठिवर्याय समुपहरामि माङ्गल्याशीर्वचांसि। ___ अन्ते ग्रन्थरत्नमिदं साम्बाय सान्नपूर्णाय श्रीकाशीविश्वनाथाय समर्प्य कामये यदिदं शब्दानुशासनरसिकेभ्यः परां प्रीतिमुपनयत्विति।। १३ngareturn वाराणसी (प्रो.अशोककुमारकालिया) श्रावणपूर्णिमा, कुलपतिः वि.सं. २०६२) सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy