________________
प्रस्तावना अस्ति महतो हर्षप्रकर्षस्य विषयोऽयं यत् प्रो. जानकीप्रसादद्विवेदैः सम्पादितं व्याख्याचतुष्टयोपेतं चतुर्थभागात्मकं कातन्त्रव्याकरणं सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य प्रकाशनसंस्थानद्वारा प्रकाशपदवी नीयते। भाषां विना जगदिदमन्धे तमसि मज्जेत्। यथोक्तं दण्डिना
इन्दमन्यं तमः कृत्स्नं जायेत भुवनत्रयम्।
यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते।। भाषाया विशुद्धये व्याकरणस्यापेक्षा। न हि व्याकरणज्ञानशून्य: साधून् शब्दान् प्रयोक्तुमीशः। अत एव 'मुखं व्याकरणं स्मृतम्'। वेदस्य रक्षार्थं व्याकरणाध्ययनमत्यावश्यकम्, 'रक्षार्थं वेदानामध्येयं व्याकरणम्, लोपागमवर्णविकारज्ञो हि पुरुषः सम्यग् वेदान् परिपालयिष्यति' इति पतञ्जलिः । व्याकरणान्यष्टौ भविष्यपुराणे ब्राह्मपर्वणि
प्रथमं प्रोच्यते ब्राह्यं द्वितीयमैन्द्रमुच्यते। याम्यं प्रोक्तं ततो रौद्रं वायव्यं वारुणं तथा।।
सावित्रं च तथा प्रोक्तमष्टमं वैष्णवं तथा।। लघुत्रिमुनिकल्पतरुकृतानि व्याकरणानि नवसंख्याकानि समाम्नातानि
ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाकटायनम्।
सारस्वतं चापिशलं शाकलं पाणिनीयकम्।। व्याकरणानामष्टविधत्वमेव प्रसिद्धम्, यथोक्तं भास्करेण–'अष्टौ व्याकरणानि षट् च भिषजां व्याचष्टा ताः संहिताः' इति भविष्यपुराणोक्तानि व्याकरणानि तु न प्रसिद्धानि। ऐन्द्रादीन्येव लोकविश्रुतानि। सर्वेष्वपि व्याकरणेषु लौकिकवैदिकोभयविधशब्दसाधकतया पाणिनीयव्याकरणस्य प्राधान्यम्। अत एव पाणिन्युपज्ञं व्याकरणं प्रसिद्धम्। समीक्षामर्मज्ञैः कोविदः पाणिनीयव्याकरणे पतञ्जलिकृतं महाभाष्यम्, जयादित्यविरचिता काशिकावृत्तिः, जिनेन्द्रबुद्धिना रचितः काशिकान्यासः, हरदत्तेनाभिहिता पदमञ्जरी इति ग्रन्थचतुष्टयस्य यन्महत्त्वमङ्गीक्रियते, तदेव महत्त्वं कातन्त्रव्याकरणे श्रीदुर्गसिंहकृतयोः कातन्त्रवृत्तितट्टीकयोः, श्रीमत्रिलोचनदासीयविवरणपञ्जिकायाः, सुषेणविद्याभूषणकृतस्य कलापचन्द्रस्य चाप्यसन्दिग्धं स्वीक्रियते।
कातन्त्रव्याकरणस्य रचना पाणिनिव्याकरणानुसारिण्येव। व्याकरणेऽस्मिन् चतुर्दशशतमितानि सूत्राणि विद्यन्ते। कार्तिकेयस्य कुमारस्य वा साहाय्येन निर्मितमिदं व्याकरणं कौमारव्याकरणमपि कथ्यते। वस्तुत आचार्य