Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 148
________________ प्रथमोऽङ्कः बन्दी - ( तारखरमास्थाय । ) सकलभुवनरक्षास्त्रस्ततन्द्रा नरेन्द्राः ! शृणुत गिरमुदारामादराच्छ्रावयामि । इह हि सदसि राधां यः शरव्यीकरोति स्मरविजयपताका द्रौपदी तत्कलत्रम् ॥ ३२ ॥ सखी - कथं विभ्रमताण्डवितभ्रूमञ्जरीभ्रमर पङ्किलाञ्छितेन नयनोस्पलखण्डेन घूर्णमानं पित्रदिव द्रौपदीवदन लावण्यामृतमितोऽभिमुखं वर्तते नरेन्द्रचक्रम् । बन्दी - अहह कुसुमायुधस्याप्रतिहतं भगवतः शासनम् । यतः, - न्यस्तं ताण्डवितभ्रु चक्षुरमुना कण्ठो लुठत्पश्चमः संवृत्तोऽस्य करोत्ययं च तरलं हारं करान्दोलनैः । मिथ्यासौ स्मयते स्थितो भणितिभिः किं चैष वैपश्चिको 8 यत्सत्यं मदिरां विनैव मदनो यूनां मनोन्मादभूः ॥ ३३ ॥ कथमहंपूर्विकया सर्व एव धनुरारोपयितुं संरभन्ते ? धृष्टद्युम्नः - हो कंदर्पचण्ड ! निवार्यतामियमहमहमिका महीपाछानाम् । बन्दी – ( किंचिदुच्चैः । ) सर्वे कार्मुककर्मठाः क्षितिभुजः सर्वेऽपि शृङ्गारिणः सर्वे मानमदोद्धताः शृणुत मे वन्द्यं वचो बन्दिनः । दुर्धर्ष धनुरच्युतस्य पणितं तच्चाध्यवस्यत्व सौ यस्य स्थाम महर्द्धि तद्धिततमं व्रीडा यशः खण्डिनी ॥३४॥ ( सर्वे परिक्रामितकेन । ) बन्दी – (द्रौपदीं प्रति । ) शंभोर्मूर्ध्नि गतागतानि कुरुते या चन्द्रलेखाङ्किते तस्याः शांतनवोऽयमुज्वलयशाः स्वर्गापगायाः सुतः । १. इतः प्रभृत्यादर्श पुस्तके प्राकृतं त्यक्त्वा केवलं तच्छायैव लिखितास्ति •

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184