Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 152
________________ प्रथमोऽङ्कः . १३ धृष्टद्युम्नः कथं धनुरारोपणपणं प्रत्ययमुदास्ते ? . बन्दीदुःशलागुणगणेन रञ्जितो लज्जितश्च कुरुराजसंनिधौ। कौतुकागमनमात्मनो वदन्वासनाञ्चलति नो जयद्रथः ॥४८॥ (परिकामितकेन ।) बन्दीदुर्योधनो नृपकिरीटविटङ्करत्न रश्मिच्छटाच्छुरितपादयुगाङ्गुलीकः। हेलाचलच्चमरनर्तितकर्णपूरः शूरः शरासनविदां प्रथमोऽयमास्ते ॥४९॥ अस्य च,पादो वाससि सान्द्रकुङ्कुमरसन्यासप्रसक्ताकृति र्यातुर्दिग्विजये न यैः प्रणयितां नीतः प्रणामाअले। ते प्रत्यप्रकपालपात्ररुचिभिस्तारास्थिहारार्थिभिः कङ्कालव्रतमीप्सुभिश्च मुदितैः कापालिकैर्वीक्षिताः॥५०॥ द्रौपदी-यः खैण्डपरशुचूडामणेः कुलालंकरणम् । सखी-आं, सखि ! स एवैषः । द्रौपदी-अस्तीदम् । किं पुनः समुद्दीपितजतुभवनत्वेन विषाशनदातृत्वेन च च्छलप्रहारी एषः।। बन्दी–किमाह महाराजदुर्योधनः । निर्दिशन्तु निजबाहुविक्रम शाङ्गनाम्नि धनुषीह पार्थिवाः। साभिमानहृदयस्तु मादृशः कः पणेन परिणेतुमिच्छति ॥ ५१ ॥ (विचिन्त्य स्वगतम् ।) कथमभिमानाङ्गीकरणेन परिहार एषः । (परिकामितकैन प्रकाशम्।) स एष भगवतो वासुदेवस्यापि वन्दनीयो बलभद्रः। १. चन्द्रस्य.

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184