Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 162
________________ द्वितीयोऽङ्कः २३ चण्डातकः — अभिन्नो भ्रातृषु, स्वच्छ चित्तो मित्रेषु, स्निग्धो बन्धुषु, निसर्गरक्तः कलत्रेषु, विनयभङ्गुरो गुरुषु, प्रसादनिष्ठो भृत्येषु महाराज - युधिष्ठिरः । तत्किमिति तत्रैष कौरवेन्द्रस्य विशेषपरिस्पन्दः ? विदुरः - किमुच्यते— युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ ५ ॥ ( विचिन्त्य । ) कौरवपतिस्तस्य प्रत्युदाहरणम् । दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः । दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रो मनीषी ॥ ६ ॥ यदयमाहूय वारणावतात्प्रेमप्रणयाभ्यां नाम शकुनि कर्णकुरुपतिप्रेरितेन धृतराष्ट्रेण युधिष्ठिरोऽभिहितः - ' यदुत वत्स युधिष्ठिर ! दुर्योधनकारिते सदसि भ्रातृद्यूतं प्रवर्तयितव्यम्' इति । चण्डातकः -- ततस्तेन किं प्रतिपन्नम् ? विदुरः - यत्पाशसंयतो वन्यः करी प्रतिपद्यते । तथा चाभिहितं तेन, राजसूयक्रतोर्यज्वा पाण्डुपुत्रो युधिष्ठिरः । आहूतो न निवर्तेय द्यूताय च रणाय च ॥ ७ ॥ पुरुषः- अत एवाहं शकुनिना प्रगुणीकृत्याक्षप्रसारं शारफलकं समर्प्य च संप्रेषितोऽस्मि सभामध्यम् । तदार्य ! कथयख किं कारणं दुर्योधनस्य दुर्जयत्वे । विदुरः - श्रुतो मया कुड्यान्तरितेन शकुनिना सह मन्त्रयमाणो दुर्योधनः १. अयं श्लोकोऽग्रिमश्वोभौ महाभारतस्थौ. क० म० १०

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184