Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
View full book text
________________
प्रथमोऽङ्कः
नकुल:- आर्य ! इमं तालतरुमायुषीकुरु । ( भीमस्तथा करोति । )
बन्दी
उत्पाटितमहातालः क्लृप्तत्चण्डगदाधरः । विप्रवीरो द्वितीयोऽपि पार्थिवानां पुरः स्थितः ॥ ८६ ॥ अर्जुन : – ( राजकमवलोक्य । )
अयमहमिह विप्रः प्रोतराधारहस्यस्त्रिभुवनजयमुद्रा द्रौपदी चेयमत्र । कलयथ यदि दोष्णश्चापदण्डप्रचण्डस्त्यजत रथगजस्थास्तत्पुरस्योपकण्ठम् ॥ ८७ ॥ बन्दी—(विचिन्त्य । )
वीर्य वचसि विप्राणां क्षत्रियाणां भुजद्वये । इदमत्यन्तमाश्चर्य भुजवीर्या हि यद्विजाः ॥ ८८ ॥ ( अर्जुनस्तदेव पठति । )
( नेपथ्ये । )
साधु ब्राह्मण ! साधु क्षत्रमार्गमनुवर्तसे । भीमः - यद्येवम्, -
---
२१
प्रसर्पतु रणाङ्गणे रुधिरकेलिकल्लोलिनी भवन्तु फलिता इव द्विरदमुण्डखण्डैर्दिशः । नृमांसकवलान्तरेष्वपि च साग्निलेखैर्मुखैः कृतान्तजयमङ्गलं विदधतु ध्वनिं फेरवाः ॥ ८९ ॥ ( इति निष्क्रान्ताः सर्वे । )
इति महाकविश्रीराजशेखरकृते प्रचण्डपाण्डवापरनाम्नि बालभारते नाटके राधावेधो नाम प्रथमोऽङ्कः ।

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184