Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 174
________________ द्वितीयोऽङ्कः न्यायवादी विकर्णोऽत्र भवद्भयो यद्यहं बहिः। तयूयं शतमेकोनं षट् च संप्रति पाण्डवाः ॥ ४४॥ दुर्योधनः-तदतिमुह्यतस्तव कतरः पन्थाः ? विकर्ण: यां मे बलः स बलवान्दलितप्रलम्बां शिष्येषु सत्स्वपि महत्सु गदामदत्त । सा मे यदादिशति हस्ततलावतीर्णा दुर्वृत्तखण्डनविधौ मम सोऽत्र पन्थाः ॥४५॥ (समन्तादवलोक्य ।) क्षत्रैकत्रासचिन्ताकुलमनसि नभःसिन्धुपुत्रे पवित्रे द्रोणे द्राक्श्मश्रु शुभ्रं वलयति शकुनौ शिक्षयत्यक्षशिक्षाम् । कर्णे कर्णान्तिकस्थे हसति कुरुपतौ दृष्टयः पाण्डवानां द्रष्टुं दुःशासनं च क्षितिपतितिलकं यान्ति धर्मात्मजं च ॥४६॥ (दुःशासनः ‘हे द्रौपदि' [ २।४१ ] इत्यादि पठति ।) विकर्णः-(विचिन्त्य । ) अहो उचितकारिता पाण्डवानाम् । आकर्ण्य कौरवकुमारबलं प्रचण्ड मत्युल्लसन्ति गुरुरोषकषायताराः। द्राग्दृष्टयो नृपतिसंसदि पाण्डवानां दृष्टा युधिष्ठिरमुखं पुनरापतन्ति ॥ ४७॥ (पुनरवलोक्य । ) अहो किमपि महारम्भः सभासदां क्षोभः । च्योतचूडामणीनां चलनझणझणत्कारिहारच्छटानां प्रेडोलत्कङ्कणालीकल कलमुखरैोभिरुड्डामराणाम् । निःश्वासैः साट्टहासं किमिदमिदमितो वेल्लितभ्रूलतानां __ संक्षोभो भूपतीनां विततमपि सभागर्भरम्भं रुणद्धि ॥४८॥ (पुरोऽवलोक्य । ) अहो कौरवपतेराज्ञा । अहो सत्यता महीपतीनाम् ।

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184