Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
View full book text
________________
३४
बालभारतम्
दुःशासन:- अये पाञ्चालि ! पञ्चानां कलत्रं भूत्वा किमपि व्रीडसे ?
( साक्षेपम् । )
हे द्रौपदि ! त्वमसि कात्र पतिव्रतानां किं 'दृष्टपञ्चपुरुषा वनिता कलत्रम् । दुर्योधनस्य तदिमं भज वाममूरु
मास्फालितं मुकुलिताङ्गुलिना करेण ॥ ४१ ॥ द्रौपदी - (तदनादृत्याञ्जलिं बद्ध्वा । ) हंहो सभासद्मस्थिता गुरवो नरेन्द्राश्च ! द्रौपदी निर्णयं पृच्छति ।
( नेपथ्ये । )
द्रौपदि ! विकर्णस्त्वामाह - ' कीदृशो निर्णयः ?'
द्रौपदी - किमहं प्रथमं हारिता द्यूते आत्मा वा धर्मनन्दनेन ? (नेपथ्ये । )
प्रजावति ! तवायमभिप्रायः
यद्यहं हारिता पूर्व भवामि द्यूत किंकरी ।
आत्मा वा हारितः पूर्व तदा नास्मि च हारिता ॥ ४२ ॥ दुःशासनः - अरे रे अकर्णविकर्ण ! सभामध्यमध्यासीने भुवनपतावार्यदुर्योधने किमित्थं प्रलपसि ?
( प्रविश्य । )
विकर्णः -- ( साक्षेपम् । )
द्यूतं क्षत्रकुलवतं न स भवेज्जेतुः पणः स्वामिनः संरम्भः किमकाण्ड एव भवता सद्वर्त्म यत्त्यज्यते । भो दुःशासन ! कः क्रमो द्रुपदजा केशाम्बराकर्षणे
दुर्वृत्तं क्षमते न कस्यचिदयं भ्राता विकर्णस्तव ॥ ४३ ॥ दुर्योधनः - (सत्रुकुटी बन्धम् । ) अरे रे धार्तराष्ट्रबटो ! वाचाटोऽसि । विकर्णः - तदद्यप्रभृति -

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184