Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
View full book text
________________
द्वितीयोऽङ्कः द्रोणादुपार्जितधनुर्निगमप्रकर्षा
त्सर्वानपि स्थितवतो वयसि प्रकाशे। भ्रातृशतं तव हनिष्यति भीमसेनः ..
काले गदप्रहरणो रणकर्मशौण्डः॥ ५३॥ ततध,
दोर्दण्डमण्डलितचण्डगदाप्रहारै
रामूलतस्तडदिति त्रुटितोरुसंधेः। दुर्योधनस्य विकटां मुकुटाग्रपीठी
द्राग्लोठयिष्यति रणे चरणेन भीमः ॥ ५४॥ शकुनिः-निर्गच्छत वनवासाय । को हि द्यूतजितानामुद्विजते मौखर्येण !
(इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीराजशेखरकृते प्रचण्डपाण्डवापरनानि
बालभारते नाटके द्वितीयोऽङ्कः।

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184