________________
द्वितीयोऽङ्कः
न्यायवादी विकर्णोऽत्र भवद्भयो यद्यहं बहिः।
तयूयं शतमेकोनं षट् च संप्रति पाण्डवाः ॥ ४४॥ दुर्योधनः-तदतिमुह्यतस्तव कतरः पन्थाः ? विकर्ण:
यां मे बलः स बलवान्दलितप्रलम्बां
शिष्येषु सत्स्वपि महत्सु गदामदत्त । सा मे यदादिशति हस्ततलावतीर्णा
दुर्वृत्तखण्डनविधौ मम सोऽत्र पन्थाः ॥४५॥ (समन्तादवलोक्य ।) क्षत्रैकत्रासचिन्ताकुलमनसि नभःसिन्धुपुत्रे पवित्रे
द्रोणे द्राक्श्मश्रु शुभ्रं वलयति शकुनौ शिक्षयत्यक्षशिक्षाम् । कर्णे कर्णान्तिकस्थे हसति कुरुपतौ दृष्टयः पाण्डवानां द्रष्टुं दुःशासनं च क्षितिपतितिलकं यान्ति धर्मात्मजं च ॥४६॥
(दुःशासनः ‘हे द्रौपदि' [ २।४१ ] इत्यादि पठति ।) विकर्णः-(विचिन्त्य । ) अहो उचितकारिता पाण्डवानाम् । आकर्ण्य कौरवकुमारबलं प्रचण्ड
मत्युल्लसन्ति गुरुरोषकषायताराः। द्राग्दृष्टयो नृपतिसंसदि पाण्डवानां
दृष्टा युधिष्ठिरमुखं पुनरापतन्ति ॥ ४७॥ (पुनरवलोक्य । ) अहो किमपि महारम्भः सभासदां क्षोभः ।
च्योतचूडामणीनां चलनझणझणत्कारिहारच्छटानां
प्रेडोलत्कङ्कणालीकल कलमुखरैोभिरुड्डामराणाम् । निःश्वासैः साट्टहासं किमिदमिदमितो वेल्लितभ्रूलतानां
__ संक्षोभो भूपतीनां विततमपि सभागर्भरम्भं रुणद्धि ॥४८॥ (पुरोऽवलोक्य । ) अहो कौरवपतेराज्ञा । अहो सत्यता महीपतीनाम् ।