________________
बालभारतम् अस्मिन्महासदसि कौरवपाण्डवीये
क्षोभं गते द्रुपदजाचिकुराञ्चनाभिः। दुर्योधनेन भृकुटी कुटिलीकृता च
जाताश्च भूमिपतयो लिखिता इवैते ॥ ४९ ॥ (सरमसं युधिष्ठिरमुपसृत्य ।) आर्य युधिष्ठिर ! प्रतिष्ठख वनवासाय । द्यूतहारितमनुष्ठीयताम् ।
(सर्वे समुत्तिष्ठन्ति ।) द्रौपदी-रे रे दुर्योधन! एष मे कचकर्षणापरिभवः आमुक्तबन्धक्रम
स्तत्सत्यमेव चश्चरीकरमणीयाकेशपाशच्छटा नखाग्राडशकोटिपाटितमहादुःशासनोरःस्थली-।
रक्तोल्लेखिकरेण निश्चितमिदं भीमेन या बध्यते ॥ ५० ॥ भीमः-रे रे दुर्योधन ! भीमसेनस्य शृणु प्रतिज्ञाम्,येनेयं याज्ञसेनी नृपसदसि हठात्केशहस्ते गृहीता •
यश्चास्याः कोटवीत्वं बत विदधदितो वाससां राशिकारः। सोऽहं तेनैव रोषारुणनयनपुटः पाणिनोत्पाटितेन
त्वां हन्ता हन्त वक्षस्तटभुवि रटतो दुष्टदुःशासनस्य ॥ ५१॥ अपि च रे रे दुर्योधन!
नखक्रकचपाठनत्रुटितकीकसाद्वक्षसः
शिरासरणिभिर्मेधे रुधिरमुत्फलत्फेनिलम् । महाञ्जलिमयं रुषा हृदि निवेश्य दौःशासने
युधिष्ठिरसहोदरः शृणु वृकोदरः पास्यति ॥ ५२॥ किं चैकस्मिन्नपराद्धेऽपि तत्सहचारिणोऽप्यपराद्धारः ? ततश्च,
१. इयमपि प्राकृतच्छाया.