Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 167
________________ बालभारतम् -~-" (नेपथ्ये।) यदादिशति कौरवेश्वरः। शकुनि:-अपरः पणः क्रियताम् । युधिष्ठिरः महीधरधरासु ये सनिनदं पतद्भिः खुरै लिखन्ति च पठन्ति च स्फुटतरं टकारानिव । विरोचनहयावलीकुलभुवां स तेषामयं । पणः पवनरंहसां मम तुरंगमाणां गणः ॥ २१ (उभौ क्रीडतः।) शकुनि:-जितं जितं महाराजदुर्योधनेन । दुर्योधनः-मातुल! त्वमेषां तुरंगमाणां भर्ता भव । शकुनि:-यदाह महाराजः । (राजानमुद्दिश्य ।) किं वाजिभिः किमु गजैः किमथो रथैर्वा ___ सापत्नकं न धृतये धरणी पणोऽस्तु । एकातपत्रमिदमद्य चिराय राज्य धर्मात्मजो भजतु वा धृतराष्ट्रजो वा ॥ २२ ॥ युधिष्ठिरः-यद्येवम्,ऐलः प्राक्स पुरूरवाः प्रभुरभूद्यस्योर्वशी वल्लभा __ दुष्यन्तः स च योऽप्यसूत भरतं शाकुन्तलं शान्तये । श्रीमाशंतनुरग्रिमः स च सतां गङ्गाकलत्रेण य___ स्तत्सिंहासनमम्बुराशिरशनां शासन्महीं मे पणः॥२३॥ भीमः-भवतस्तु कः पणः ? (दुर्योधनस्तदेव पठति ।) (नेपथ्ये।) राजन्युधिष्ठिर! नराधिप कौरवेन्द्र! .... वंशे युवां भगवतो भवशेखरस्य ।

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184