Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 169
________________ ३० बालभारतम् युधिष्ठिर:-जितोऽस्मि । तन्नियोजय कृत्ये । . शकुनिः-पुनरपरः पणः क्रियताम् । युधिष्ठिरः-कः पुनरपरः पणः? शकुनि:-श्रातरः । युधिष्ठिर:यो मन्थानकरः क्रतौ निजकुलप्राकारबन्धश्च यो ___दोभ्यां यः प्रसभं व्यधत्त च जरासंधस्य संधिच्छिदाम् । सोऽयं दृप्तहिडिम्बडिम्बविजयी वीरस्त्रिलोकाद्भुतं भीमो भीमपराक्रमः पृथुगदाव्यग्राग्रपाणिः पणः ॥ २७ ॥ भीमा-भवतस्तु कः पणः ? दुर्योधनः संकर्षणान्निजतनूज्ज्वलकीर्तिराशेः __ सार्ध मयाधिगतदिव्यमहारहस्यः। त्वत्सोदरस्य मम सोदर एष वीरो दुःशासनः प्रतिपणोऽस्य वृकोदरस्य ॥ २८॥ (उभौ क्रीडतः।) शकुनिः-जितं जितं कौस्वराजेन । अपरः पणः क्रियताम् । युधिष्ठिर:कर्णप्रावरणैः सहैकचरणानश्वाननैः किंनरां रूयक्षस्तुल्यशिखान्वलीमुखमुखैर्यक्षांश्च रक्षांसि च । निर्जित्या कनकाद्रितो जनपदान्यो राजसूयक्रतो सम्राजं कृतवान्युधिष्ठिरमलं सोऽयं किरीटी पणः २९॥ भीमः-भवतस्तु कः पणः ? यो भार्गवाद्भगवतोऽर्जितचापवेदो द्रोणेन तुल्यगरिमा मम धर्ममित्रम् । स प्रीणितार्थिजनवाग्भिररिक्तकर्णः कर्णः स्वयं प्रतिपणोऽस्य धनंजयस्य ॥ ३०॥

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184