________________
३०
बालभारतम्
युधिष्ठिर:-जितोऽस्मि । तन्नियोजय कृत्ये । . शकुनिः-पुनरपरः पणः क्रियताम् । युधिष्ठिरः-कः पुनरपरः पणः? शकुनि:-श्रातरः । युधिष्ठिर:यो मन्थानकरः क्रतौ निजकुलप्राकारबन्धश्च यो ___दोभ्यां यः प्रसभं व्यधत्त च जरासंधस्य संधिच्छिदाम् । सोऽयं दृप्तहिडिम्बडिम्बविजयी वीरस्त्रिलोकाद्भुतं
भीमो भीमपराक्रमः पृथुगदाव्यग्राग्रपाणिः पणः ॥ २७ ॥ भीमा-भवतस्तु कः पणः ? दुर्योधनः
संकर्षणान्निजतनूज्ज्वलकीर्तिराशेः __ सार्ध मयाधिगतदिव्यमहारहस्यः। त्वत्सोदरस्य मम सोदर एष वीरो दुःशासनः प्रतिपणोऽस्य वृकोदरस्य ॥ २८॥
(उभौ क्रीडतः।) शकुनिः-जितं जितं कौस्वराजेन । अपरः पणः क्रियताम् । युधिष्ठिर:कर्णप्रावरणैः सहैकचरणानश्वाननैः किंनरां
रूयक्षस्तुल्यशिखान्वलीमुखमुखैर्यक्षांश्च रक्षांसि च । निर्जित्या कनकाद्रितो जनपदान्यो राजसूयक्रतो
सम्राजं कृतवान्युधिष्ठिरमलं सोऽयं किरीटी पणः २९॥ भीमः-भवतस्तु कः पणः ?
यो भार्गवाद्भगवतोऽर्जितचापवेदो
द्रोणेन तुल्यगरिमा मम धर्ममित्रम् । स प्रीणितार्थिजनवाग्भिररिक्तकर्णः कर्णः स्वयं प्रतिपणोऽस्य धनंजयस्य ॥ ३०॥