SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽक: (उभौ क्रीडतः।) शकुनि:-जितं जितं कौरवराजेन । तदपरः पणः क्रियताम् । युधिष्ठिरःसौहार्दात्प्रणयादथ प्रथिमतः स्नेहातिरेकाच्च वा यो देवेन रथाङ्गिनापि समरं हित्वा करं लम्भितः। पाश्चात्यक्षितिपालनिर्मलयशःप्रस्तारहारान्हर सोऽयं मे नकुलः कुलकतिलको युद्धप्रवीणः पणः॥३१॥ भीमः-भवतस्तु कः पणः ? दुर्योधनः नकुलस्यापि ते भ्रातुर्धाता प्रतिपणो मम । बिभ्रत्कीर्तिमहानावि विकर्णः कर्णधारताम् ॥ ३२॥ (उभौ क्रीडतः।) शकुनिः-जितं जितं महाराजदुर्योधनेन । तदपरः पणः क्रियताम् । युधिष्ठिरःहेलालोडितपाण्ड्यकेरलबलो यः सिंहलाल्लङ्घयन् प्राक्संक्षुभ्य विभीषणेन तरसा दूरात्कर लम्भितः। नित्यं रावणनिर्जितामरहृतैर्यः संभृतो भूषणैः सौम्यश्रीः सहदेव एष स पणः क्षत्रैकचूडामणिः॥ ३३ ॥ भीमा-भवतस्तु कः पणः ? दुर्योधनः-अनिर्जितो भ्राता विकर्ण एष मम पणः । (उभौ क्रीडतः।) शकुनि:-जितं जितं महाराजाधिराजेन । तदपरः पणः क्रियताम् । युधिष्ठिरः-किं नामा[प]हारितम् । कः पुनरपरः पणः क्रियताम् ? शकुनिः-धर्मदारा द्रौपदी । युधिष्ठिरः
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy