________________
३२
बालभारतम्
संभूता द्रुपदाध्वरे हुतभुजः पाण्डोनूपस्य स्नुषा
राधावेधमहापणेन विजिता राक्षां पुरः पश्यताम् । भूभृन्मोलिमणीन्द्रदीधितिजलैर्या स्नातपादाम्बुजा
सा देवी विनयाभिमानवसतिः कृष्णा वितृष्णा पणः॥ ३४॥ भीमा-भवतस्तु कः पणः ? दुर्योधनः
ज्येष्ठत्वात्पाण्डुपूज्यस्य धृतराष्ट्रस्य या स्नुषा।
सा देवी देवरवती मम भानुमती पणः ॥ ३५॥ सुनन्दा-(खगतम् ।) एष स ज्येष्ठाभिः कनिष्ठानां विनिमयः।
(उभौ क्रीडतः।).. शकुनि:-जितं जितं महाराजदुर्योधनेन । दुर्योधनः-दुःशासन ! आनीयतां द्यूतदासी द्रौपदी ।
. (नेपथ्ये।) यदादिशति पाण्डवकौरवेश्वरः । दुर्योधनः-अपरः पणः क्रियताम् । युधिष्ठिरः-न मे पणान्तरमस्तीति प्रतिभाति । दुर्योधनः
वर्षाणि द्वादशारण्ये सह तिष्ठन्तु निष्ठया । अशातचर्यया वर्षमावयोयुधि जीयते ॥ ३६॥
(युधिष्ठिरस्तदेवानुवदति । उभौ क्रीडतः ।) शकुनि:-जितं जितं महाराजदुर्योधनेन ।
(नेपथ्ये ।) पश्चानां या कलत्रं द्रुपदमखविधावद्भुतं जन्म यस्याः
पूता या राजसूयावभृथपरिगमे मन्त्रपूतैः पयोभिः । तामेतां द्यूतदासी कुरुपतिनियमं मूर्ध्नि कृत्वा मयान्तः केशेष्वाकृष्यमाणांशृणुत नृपतयो यस्य शक्तिः स पातु ॥३७॥