________________
द्वितीयोऽङ्कः दुर्योधनः-कथमयं संपादितमदाज्ञः सद्रौपदीको वत्सो दुःशासनः प्राप्तः । (ततः प्रविशति यथानिर्दिष्टा द्रौपदी दुःशासनश्च । दुःशासनस्तदेव पठति ।)
सुनन्दा-(सहसोपसृत्य हस्तामोटं नाटयन्ती। ) दुःशासन! मुञ्च मुच्च पाञ्चालीकेशपाशम् ।
दुःशासन:-(तामपनुद्य समन्तादवलोक्य विहस्य च ।) यन्मुक्तः स्फारतारध्वनिभरितसभाकुञ्जगर्भः सरोष
हुंकारः कातराणां तरलितहृदयः फाल्गुनस्याग्रजेन । कुर्वद्भिरिवल्लीनहननिबिडिताज़टकूटानृपैस्त
न्यस्ताः खङ्गेषु रत्नत्सरुषु सरभसं संप्रहाराय हस्ताः ॥ ३८॥ सुनन्दा-(पुनः पाणिमोटनं नाटयित्वा ।) अम्बाचुम्बितपल्लवानां बहुना स्नेहेन धृष्टद्युम्नो
येषां पुष्कलवेणिबन्धनकरः स आस्ते रात्रिंदिनम् । चण्डं पाण्डवगेहिन्याश्चिकुरे रे कर्षता त्वया
किं दुःशासन! दुःसहाः कवलिता हालाहलायाङ्कुराः ॥३९॥ द्रौपदी-वत्स दुःशासन ! मुञ्च मुञ्च केशपाशम् । कथमेकवस्त्रा भूत्वा गुरुनरेन्द्रपुरतः संचरिष्ये ?
दुःशासनः-(विहस्य । ) नन्वपनयाम्येकवस्त्रतां कोटवीकरणेन । (बहुवस्त्रतापनयनं नाटयन् ।)
यावन्नैकं द्रुपददुहितुः कृष्यते वस्त्रमस्या
स्तत्स्थानेऽन्यद्भवति पिदधत्तावदङ्गं ततश्च । खिन्नं चैतन्मम करतलं वाससां चष राशि
स्तन्मन्येऽसौ त्रिभुवनमनोमोहिनी वेत्ति विद्याम् ॥ ४०॥ द्रौपदी-भो दुःशासन ! मम किमपतिव्रताजनोचितं करोषि ?
१. प्राकृतच्छायेयम्. २. कोटवी नग्ना स्त्री.