________________
द्वितीयोऽङ्कः
द्यूतं न युष्मदुचितं ननु चिन्त्यतां च "कैः क्षत्रियैर्वसुमती पणिता पुराणैः १ ॥ २४ ॥ युधिष्ठिरः - भोः सभासदः ! कथं किल राजसूययज्वा प्रतिज्ञातमर्थं कदर्थयति ?
दुर्योधनः- हंहो सभ्याः ! अक्षधर्मा अपि न निषिध्यन्ते । -
( उभौ क्रीडतः । )
शकुनिः — जितं जितं महाराजदुर्योधनेन । दुर्योधनः – स्वयमहमस्य राज्यार्धस्याधिष्ठाता । शकुनिः - अपरः पणः क्रियताम् । युधिष्ठिरः किं नामावशिष्टं यत्पणीक्रियते ? शकुनिः - किं नामापहारितं शरीरे तिष्ठति ? शरीरधना हि राजानः । युधिष्ठिरः - यद्येवम्, -
निर्यान्ति यस्य वदनाद्वितथा न वाचो यो राजसूयविधि निर्धुतपापपङ्कः । सोढा न चानुजमहाविरहस्य योऽस्मि -
न्सोऽयं स्वयं तव पणः प्रथमः पृथासूः ॥ २५ ॥ भीमः - (स्वगतम् । ) कथमात्मापि पणीकृतः ? अहो सत्यसंधता आर्ययुधिष्ठिरस्य । ( प्रकाशम्) भवतस्तु कः पणः !
दुर्योधनः
हेलान मन्नृपकिरीट विटङ्ककोटिकारिरत्नचितकाञ्चनपादपीठः । वैतालिकैः स्तुतसमस्तजयोत्सव श्रीः
सोऽयं स्वयं प्रतिपणस्तव कौरवेन्द्रः ॥ २६॥
२९
( उभौ क्रीडतः । )
शकुनिः - जितं जितं महाराजदुर्योधनेन ।