Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
View full book text
________________
द्वितीयोऽङ्कः
(ततः प्रविशति युधिष्ठिरो भीमसेनश्च, दुर्योधनः शकुनिश्च, तयोश्च ताम्बूलकर
___ वाहिन्यौ सुनन्दा सुरेखे च ।) युधिष्ठिरः
विवर्तयाक्षाशकुने शारक्रीडां प्रवर्तय ।
धृतराष्ट्रस्य पाण्डोश्च ममाशामौलिमञ्चति ॥ १२॥ किं च,
राजसूयक्रतोर्यज्वा पाण्डवोऽयं युधिष्ठिरः।
आहूतो न निवर्तेय द्यूताय च रणाय च ॥ १३ ॥ शकुनिः- (दक्षिणं बाहुमुद्यम्य ।) । हंहो हस्त कृतास्त्र! दानसलिलप्रक्षालित स्वस्ति ते
लोकेष्वक्षविचक्षणश्च शकुनिः स्वाङ्गेऽपि भक्तस्त्वयि । वीरे माननिधौ पराक्रमधने तद्भागिनेये मम
श्रीः पार्थप्रथमादपास्य भवता कार्या हि दुर्योधने ॥ १४ ॥ दुर्योधनः-तदार्य ! पणः क्रियताम् । युधिष्ठिरःहारोऽयं केरललीविहसितशुचिभिः पतिभिौक्तिकानां
शुक्रेणैकाकृतीनां कृतसकलसभागर्भचन्द्रोदयश्रीः। भ्रातृयूते पणो मे रजनिचरपतेरर्जितो राजसूये
यस्यैतन्मध्यरत्नं छुरयति ककुभः कौङ्कुमीभिः प्रभाभिः ॥१५॥ भीमा-भवतस्तु कः पणः ? दुर्योधनः
राजावलीक्रमायातो राजकोषः पणो मम । शकुन्तलाद्याभरणैर्यः पुनाति च पाति च ॥ १६॥
(उभौ क्रीडतः।) शकुनि:-जितं जितं महाराजदुर्योधनेन । हहो युधिष्ठिर! हारितो हारः। १आकाशस्थगृहविशेषेण; स च सर्वताराध्यः कान्तिवान्स्थूलश्च.

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184