Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 155
________________ १६ बालभारतम् तस्यैतस्य स एष दूषणकणः कारुण्यपुण्यात्मनः पात्रापात्र विवेचनं न यदभूत्सर्वस्वदानेष्वपि ॥ ६२ ॥ द्रौपदी - यो यादवकुमारोऽपि भूत्वा अनाखादितकादम्बरीरसः स एतस्य गुणो दोषो वा क्रियताम् । बन्दी यागकुण्डशिखिगर्भसंभवं वन्द्यते न तु करेण लङ्घयते । इत्युदीर्य चतुरोक्ति सात्यकिः पूजया परिहरत्ययं धनुः ॥ ६३ ॥ ( परिक्रामितकेन । ) शिशुपाल महीपालो मेकलानां कुलोद्भवः । अयं सजयनिर्घोषो दमघोषसुतः परः ॥ ६४ ॥ पाणिप्रस्थैर्बकुलसुमनः सौरभं यो मिमीते दंपत्योर्यः सुरतसमरे सौख्यसंख्यां करोति । यश्च ज्योत्स्नां चुलकपटलैः काममाचामतीन्दोः शक्तः स्तोतुं यदि स निखिलान्यस्य कीर्त्यद्भुतानि ॥ ६५ ॥ द्रौपदी — यो निर्जितसुरासुरः । बन्दी - दक्षिणं करमुपैति वामतो वाममञ्चति च दक्षिणादिति । दूरतोऽस्य नृपतेर्गुणार्पणं धारणेऽपि धनुषो विडम्बना ॥ ६६॥ ( परिक्रामितकेन । ) सत्यसंधो जरासंधः कान्तदिग्वलयो बलैः । अत्रैष राजते राजा मागधो मगधस्तुतः ॥ ६७ ॥ अस्यासमं समरकर्म दिक्षमाणै दषद्वयं फणिभिरापि चमूरजस्तः । यत्कूणितेक्षणतया न कबन्धनृत्तं दृष्टं श्रुतो न च महाभटसिंहनादः ॥ ६८ ॥ द्रौपदी – यो जननीजनितदेहखण्डयुगलो जरया राक्षस्या संघित इति जरासंधो भूपतिः ।

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184