________________
१६
बालभारतम्
तस्यैतस्य स एष दूषणकणः कारुण्यपुण्यात्मनः पात्रापात्र विवेचनं न यदभूत्सर्वस्वदानेष्वपि ॥ ६२ ॥ द्रौपदी - यो यादवकुमारोऽपि भूत्वा अनाखादितकादम्बरीरसः स एतस्य गुणो दोषो वा क्रियताम् ।
बन्दी
यागकुण्डशिखिगर्भसंभवं वन्द्यते न तु करेण लङ्घयते । इत्युदीर्य चतुरोक्ति सात्यकिः पूजया परिहरत्ययं धनुः ॥ ६३ ॥ ( परिक्रामितकेन । )
शिशुपाल महीपालो मेकलानां कुलोद्भवः । अयं सजयनिर्घोषो दमघोषसुतः परः ॥ ६४ ॥ पाणिप्रस्थैर्बकुलसुमनः सौरभं यो मिमीते
दंपत्योर्यः सुरतसमरे सौख्यसंख्यां करोति । यश्च ज्योत्स्नां चुलकपटलैः काममाचामतीन्दोः
शक्तः स्तोतुं यदि स निखिलान्यस्य कीर्त्यद्भुतानि ॥ ६५ ॥ द्रौपदी — यो निर्जितसुरासुरः ।
बन्दी -
दक्षिणं करमुपैति वामतो वाममञ्चति च दक्षिणादिति । दूरतोऽस्य नृपतेर्गुणार्पणं धारणेऽपि धनुषो विडम्बना ॥ ६६॥ ( परिक्रामितकेन । )
सत्यसंधो जरासंधः कान्तदिग्वलयो बलैः ।
अत्रैष राजते राजा मागधो मगधस्तुतः ॥ ६७ ॥ अस्यासमं समरकर्म दिक्षमाणै
दषद्वयं फणिभिरापि चमूरजस्तः ।
यत्कूणितेक्षणतया न कबन्धनृत्तं
दृष्टं श्रुतो न च महाभटसिंहनादः ॥ ६८ ॥
द्रौपदी – यो जननीजनितदेहखण्डयुगलो जरया राक्षस्या संघित इति जरासंधो भूपतिः ।