________________
प्रथमोऽङ्कः
यस्मिन्मदस्य मदनस्य च भूर्ममार्यो
यस्मिन्नमी च यदुवंशभुवः कुमाराः । नन्वत्र सोsहममुना कमलावतारस्त्रीचक्र केलिचतुरश्चरितेन लज्जे ॥ ५७ ॥ ( परिक्रामितकेन । )
बन्दी -
वल्गच्चाणूरचूर्णीकरणसहभुवः पूतनाफूत्कृतानां कर्तारः कंसवंशप्रशमपरशवः केशिनः क्लेशकाराः ।
यस्यासन्दानदर्पप्रबलकुवलयापीडपीडाप्रगल्भाः
क्रीडाडिम्भस्य लीलोद्धतधरणिधराः केलयः कालियारेः ॥५८॥ तस्यैष शम्बरमहासुरसुन्दरीणां सिन्दूरमण्डनहरेण पराक्रमेण ।
शश्वत्प्रकामकमनीयजनोपमानं
प्रत्यक्षपञ्चविशिखस्तनयः पुरस्तात् ॥ ५९ ॥
१५
द्रौपदी - यः किल यादवकुमाराणां मध्ये निरुपमरूपरेखाजयपताकां निर्विलम्बमवलम्बते ।
बन्दी - धृष्टद्युम्न आर्य !
उद्यतः क्रतुकृशानुजन्मनः कर्तुमेष धनुषोऽधिरोहणम् । शार्ङ्गिणा भगवता ससंभ्रमं भ्रूविटङ्कघटनेन वार्यते ॥ ६० ॥ ( परिक्रामितकेन । )
बन्दी — कथं सात्यकिः,
अपि च
धनुर्विद्यारहस्येषु शिष्योऽयं सव्यसाचिनः । प्रद्युम्नस्य सहाध्यायी सात्यकिः सत्यसंगरः ॥ ६१ ॥
यः सत्यस्य निधिः श्रियां च सरणिः खाम्नां च धाम्नां चयो यो दाता च दयालुरेव च पदं कीर्तेश्च नीतेश्च यः ।