________________
बालभारतम्
किं किं किं चु चु चुम्बनम म मुधा वक्त्राम्बुजस्याग्रतो
दे दे देहि पि पि प्रिये सु सु सुरां पात्रे त्रिरे रेवति। मा मा मा वि विलम्बनं कु कु कुरु प्रेम्णा हली याचते .
यस्येत्थं मदघूर्णितस्य तरसा वाचः स्खलन्त्याकुलाः ॥५२॥ अपि च,
नीलाम्बरं नलिनदाम च यस्य भूषा
यत्प्रीतिकारि मधुरं मधु रेवती च । लीलार्धदृष्टधनुरत्र हली सहेलं
शारैः स एष खलु खेलति खेलगामी ॥५३॥ द्रौपदी-यः किलैरावणवारण इव सदा मदखच्छन्दः । बन्दी-किमाह कामपाल:रेवतीं त्रिभुवनैकसुन्दरी न प्रकोपयति रोहिणीसुतः । तेन नैष विदधाति कौतुकी दृक्त्रिभागमपि कृष्णकार्मुके ॥५४॥
(पुनः।) बन्दी
यः पीयूषभुजां पुरः प्रहरतां दम्भोलिपाणिं रणे ।
निर्जित्योर्जितशाङ्गनिर्गतशरश्रेणीभिरुद्दामभिः। शच्या वाञ्छितमौलिवन्धरचनैः पुष्पैः सदा सुन्दरांश्चके नन्दनपारिजातकतरून्विश्वंभरासाक्षिणः ॥५५॥ वृषतुरगकरीन्द्रस्यन्दनाद्याकृतीनां
किमपरमसुराणां मन्थिता सोऽयमास्ते । कृतसुरपरितोषः षोडशस्त्रीसहस्त्र.
प्रणिहितपरिरम्भस्यास्पदं पद्मनाभः ॥५६॥ - द्रौपदी-यस्य किल कलकण्ठीमञ्जुलजल्पिनी रुक्मिणी प्रथमकलत्रम् । यस्य काञ्चनाभा सत्यभामा संवननं हृदयस्य ।
बन्दी–किमाह देवो वासुदेवः ।