________________
प्रथमोऽङ्कः . १३ धृष्टद्युम्नः कथं धनुरारोपणपणं प्रत्ययमुदास्ते ? . बन्दीदुःशलागुणगणेन रञ्जितो लज्जितश्च कुरुराजसंनिधौ। कौतुकागमनमात्मनो वदन्वासनाञ्चलति नो जयद्रथः ॥४८॥
(परिकामितकेन ।) बन्दीदुर्योधनो नृपकिरीटविटङ्करत्न
रश्मिच्छटाच्छुरितपादयुगाङ्गुलीकः। हेलाचलच्चमरनर्तितकर्णपूरः
शूरः शरासनविदां प्रथमोऽयमास्ते ॥४९॥ अस्य च,पादो वाससि सान्द्रकुङ्कुमरसन्यासप्रसक्ताकृति
र्यातुर्दिग्विजये न यैः प्रणयितां नीतः प्रणामाअले। ते प्रत्यप्रकपालपात्ररुचिभिस्तारास्थिहारार्थिभिः
कङ्कालव्रतमीप्सुभिश्च मुदितैः कापालिकैर्वीक्षिताः॥५०॥ द्रौपदी-यः खैण्डपरशुचूडामणेः कुलालंकरणम् । सखी-आं, सखि ! स एवैषः ।
द्रौपदी-अस्तीदम् । किं पुनः समुद्दीपितजतुभवनत्वेन विषाशनदातृत्वेन च च्छलप्रहारी एषः।।
बन्दी–किमाह महाराजदुर्योधनः । निर्दिशन्तु निजबाहुविक्रम शाङ्गनाम्नि धनुषीह पार्थिवाः।
साभिमानहृदयस्तु मादृशः कः पणेन परिणेतुमिच्छति ॥ ५१ ॥ (विचिन्त्य स्वगतम् ।) कथमभिमानाङ्गीकरणेन परिहार एषः । (परिकामितकैन प्रकाशम्।) स एष भगवतो वासुदेवस्यापि वन्दनीयो बलभद्रः।
१. चन्द्रस्य.