________________
धृष्टद्युम्नः
बन्दी -
अस्य वैष्णवमिदं महाधनुः स्वप्रभावविभवेन भूपतेः । अम्बरे भुवि दिशां च संचये दर्शयत्यतनुकार्मुकावलीः ॥६९॥ ( परिक्रामितकेन । )
बन्दी - कथमेते राजानो युगपदुत्थिताश्वापमारोपयितुं विडम्बि - ताश्च । तथा हि
जातं कीकसभङ्गतः शकपतेर्दोर्दण्डयोः खण्डनं निष्ठयूता रमठेश्वरस्य वदनात्कीलालकल्लोलिनी । जानुभ्यां जगतीं गतश्च तरसा पाण्ड्यः प्रचण्डोऽप्ययं कोदण्डेन न खण्डिताः क्षितिभुजो दामोदरीयेण के ॥ ७० ॥ बन्दी ——– (सविषादम् । )
हा मन्त्रं शकुनेः कुलक्षयकरं दुर्योधनं हा नृपं हा भीष्मं च पितामहं गुरुमपि द्रोणं सपुत्रं व हा । दग्धा यज्जतुधाम्नि पाण्डुतनया जीवेत्स चेदर्जुनो राधायन्त्रमविद्धमत्र न भवेत्कन्या च न द्रौपदी ॥ ७१ ॥
C
प्रथमोऽङ्कः
---
१७
वैकुण्ठकार्मुक हठाक्रमणैककुण्ठे दोर्दण्डखण्डनविखण्डितराजचक्रे । द्राग्द्रौपदी नमितकण्ठविलोठिहारविश्लिष्ट्रयष्टिगणना गुणनां करोति ॥ ७२ ॥ सखी - किं पुनरेष भरितभुवनः कोलाहलो विपुल: ? बन्दी - ( अवलोक्य सहर्षम् । )
धृष्टद्युम्ने विषण्णे हसतिं मुरजिति द्रौपदीचित्तनिन्द्ये कोदण्डप्रौढिगाढग्लपितगुरुबले चात्र राज्ञां समाजे । प्रकृष्णाजिनानां करकरकजुषा वल्कलव्याकुलानां Marrias ध्दवतरति युवा कार्मुके दत्तदृष्टिः ॥ ७३ ॥
१. करकः कमण्डलुः.