Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay
View full book text
________________
बालभारतम्
अपि च,
बीडानतेषु वदनेषु च भूपतीनां
संचारयन्विकचपङ्कजचारु चक्षुः। अभ्येति मत्तगजखेलगतिः स एष
साभ्यर्थनं मुनिजनेन निषिध्यमानः ॥ ७४॥ अर्जुनः—(कतिचित्पदानि दत्त्वा । चतुर्दिशमवलोक्य ।) एतत्कृष्णस्य शाङ्ग ननु धनुरतनुप्राणदोर्दण्डचण्डै
र्दूराद्भूपप्रकाण्डैः सपदि परिहृतं शिजिनीसञ्जनेषु । मध्ये राज्ञां प्रतिज्ञा मम पुनरियती मद्भजायन्त्रयोगे
प्रत्येकं पर्वमुद्रा त्रुटति तडिति वा जायते कर्मठं वा ॥ ७५॥ (सरभस परिक्रम्य धनुरारोपणं नाटयन् । ) -
मद्वाहुयन्त्रयुगयन्त्रितमाततज्यं . न स्याद्धनुः कथमिदं हि रथाङ्गपाणेः। बुध्नाटनिर्यदि न याति च भूमिपृष्ठ___ मा शेषमा च कमठाधिपमभ्युपेयात् ॥ ७६ ॥ भीमा-वत्स नकुल ! भिदुरा भूमिरिति मा कदाचन कदर्थितकोदण्डकोटिः स्याकिरीटी । तत्तस्याधस्ताद्धस्तं दाव्य निदधे । (इति तथा करोति ।)
नकुल:धत्से जर्जरतां न मेदिनि ! मुधा मा शेष ! शङ्कां कृथा
स्तुभ्यं कूर्मपते ! नमस्त्यज भयं दिक्कुञ्जराः! स्वस्ति वः । यजिष्णुर्भुजयोर्बलेन नयति ज्यां हेलयवाटनी धत्ते पाणितलं तलेऽस्य धनुषो वामं हिडिम्बापतिः ॥ ७ ॥
(अर्जुन आरोपयति ।) सखी-भगवति मिथुनसंघटनैकदेवते! कुण्ठितनिःशेषनरेन्द्रचक्रमेकविप्रवीरसमुद्यमशेषं वर्तते स्वयंवरडम्बरम् ।
(अर्जुनो बाणमोक्षं नाटयति ।)

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184