________________
प्रथमोऽङ्कः
बन्दी - ( तारखरमास्थाय । ) सकलभुवनरक्षास्त्रस्ततन्द्रा नरेन्द्राः ! शृणुत गिरमुदारामादराच्छ्रावयामि । इह हि सदसि राधां यः शरव्यीकरोति स्मरविजयपताका द्रौपदी तत्कलत्रम् ॥ ३२ ॥ सखी - कथं विभ्रमताण्डवितभ्रूमञ्जरीभ्रमर पङ्किलाञ्छितेन नयनोस्पलखण्डेन घूर्णमानं पित्रदिव द्रौपदीवदन लावण्यामृतमितोऽभिमुखं वर्तते नरेन्द्रचक्रम् ।
बन्दी - अहह कुसुमायुधस्याप्रतिहतं भगवतः शासनम् । यतः, - न्यस्तं ताण्डवितभ्रु चक्षुरमुना कण्ठो लुठत्पश्चमः
संवृत्तोऽस्य करोत्ययं च तरलं हारं करान्दोलनैः । मिथ्यासौ स्मयते स्थितो भणितिभिः किं चैष वैपश्चिको
8
यत्सत्यं मदिरां विनैव मदनो यूनां मनोन्मादभूः ॥ ३३ ॥ कथमहंपूर्विकया सर्व एव धनुरारोपयितुं संरभन्ते ?
धृष्टद्युम्नः - हो कंदर्पचण्ड ! निवार्यतामियमहमहमिका महीपाछानाम् ।
बन्दी – ( किंचिदुच्चैः । )
सर्वे कार्मुककर्मठाः क्षितिभुजः सर्वेऽपि शृङ्गारिणः सर्वे मानमदोद्धताः शृणुत मे वन्द्यं वचो बन्दिनः । दुर्धर्ष धनुरच्युतस्य पणितं तच्चाध्यवस्यत्व सौ
यस्य स्थाम महर्द्धि तद्धिततमं व्रीडा यशः खण्डिनी ॥३४॥ ( सर्वे परिक्रामितकेन । )
बन्दी – (द्रौपदीं प्रति । )
शंभोर्मूर्ध्नि गतागतानि कुरुते या चन्द्रलेखाङ्किते
तस्याः शांतनवोऽयमुज्वलयशाः स्वर्गापगायाः सुतः ।
१. इतः प्रभृत्यादर्श पुस्तके प्राकृतं त्यक्त्वा केवलं तच्छायैव लिखितास्ति •