________________
बालभारतम् वन्दित्वैतमुदग्रभार्गवशरश्रेणीव्रणालंकृतं
भीष्मं सुभ्र! ततः स्वयंवरनृपाः प्रत्येकमालोकय ॥ ३५॥ सखी-द्रुपदनन्दिनि ! गङ्गातनयः शान्तनव एषः । तद्गुरुत्वेन प्रणमतु।
द्रौपदी-यः किल कुमारब्रह्मचारी । नमो नमः पाण्डवकौरवपितामहाय ।
(सर्वे परिक्रामितकेन ।) बन्दी-(खगतम् ।) अयं भगवतो भीष्मादननगरिमा द्रोणाचार्यः। (प्रकाशं द्रौपदी प्रति ।)
सदाशिवप्रशिष्योऽयमवधिः सर्वधन्विनाम् ।
आकर्णपलितः सुभ्र! द्रोणाचार्यः प्रणम्यताम् ॥ ३६॥ द्रौपदी-यः पाण्डवकौरवाणां धनुर्वेदविद्यागुरुः ।
बन्दी-निजदोःस्तम्भसंभावनागर्वखर्वितविवेकान्नृपतीनवलोक्य किमाह भारद्वाजः
शिष्योऽस्मि भार्गवमुनेः कुरुपाण्डवानां
कोदण्डकर्मणि गुरुस्तदिदं ब्रवीमि । . हे भूभुजो जयवपूंषि धनूंषि धत्त
मुक्त्वाऽर्जुनं तु भुवि विध्यति कोऽत्र राधाम् ॥ ३७॥ द्रौपदी-नमो नमस्ते द्रोणाय कलशोद्भवाय ।
(सर्वे परिका मितकेन ।) बन्दीदूरोदश्चिमरीचिरत्नरचनाचित्रं तनुत्रं तनो
रुत्कृत्य त्रिदशेश्वराय ददतो यस्य सितं चक्षुषा । पाञ्चालीवदनेन्दुसुन्दरतया तेनैव पर्यश्रुणा
सोऽयं पश्यति दुर्धरं धनुरिदं राधां च राधासुतः॥३८॥ १. राधाः धन्विना लक्ष्यविशेषः।