________________
प्रथमोऽङ्कः (विचिन्त्य ।) अहो महाप्रभावं भार्गवं धनुः । यदमुना मम चक्षुर्ज्ञानमुन्मीलितम् । येनास्य प्रभावं [च] भावं च भूपतीनां प्रत्यक्षमिव पश्यामि ।
सखी-सखि ! दानकीर्तिसंतर्पितभुवनकर्णः कर्ण एषः । द्रौपदी-यो दुर्योधनप्रसादलब्धचम्पाधिपत्यः । बन्दी-(विहस्य खगतम्।) अहो महात्मनामपि कैतवानुगृहीता वृत्तयः । यदेषः,
दुर्नमं दहनसंभवं धनुः संशये न च सतां प्रवृत्तयः। अङ्गराज इति चिन्तयन्निमां भाषते वज पुरः कुरूद्वहः॥३९॥
(सर्वे परिक्रामितकेन।) स एव-(प्रकाशम् ।)
यौवराज्याभिषेका) वीरो दुर्योधनानुजः।
दुःशासनो महावेष एष मञ्चं विमुञ्चति ॥ ४०॥ सखी-यो दुःशलप्रभृतीनामेकोनशतस्य ज्येष्ठः, कनिष्ठो दुर्योधननरेन्द्रस्य । धृष्टद्युम्न:--(खगतम् ।) यथार्थनामा दुःशासन एवायम् ।
चापं प्रति त्रिचतुराणि पदानि दत्त्वा
कृष्णाहठग्रहनिमित्तविषण्णचेताः । दुःशासनो नृपतिचक्रविमुक्ततार
हुंकारलजितमनाः शनकैः प्रयाति ॥ ४१॥ द्रौपदी-अपि नाम चण्डचरित एषः । बन्दी-(निरूप्य।) नमो नमो विष्णुकोदण्डपणबन्धाय । (खगतम् ।)
द्रौपदी परिणयन्तमर्जुनं विद्धराधमवलोक्य मायया। दोर्बलं विफलमात्मनो विदन्द्रीडयैष विनतो निवर्तते ॥४२॥
(परिक्रामितकेन ।)